________________
चन्द्रप्राप्तिसूत्रे आकाशे पूर्वदिगाकाशभागे 'उत्तिटइ' उत्तिष्ठति उदयमेतिः 'से णं' स उदितः सन् खलु 'इम' इमं प्रसिद्धं 'दाहिणड्ढे लोयं' दक्षिणा? दक्षिणदिक्थितमद्ध लोकं 'तिरियं करेइ' तिर्यक् करोति स्वतेजसा प्रकाशयति 'करित्ता' कृत्वा दक्षिणार्द्धलोकं प्रकाश्य 'उत्तरड्ढलोयं' उत्तरा
लोकम् उत्तरदिक् स्थितं लोकं 'तमेव राओ' तस्यामेव रात्रौ करोति 'दक्षिणाद्ध दिनसद्भावे उत्तरार्धे रात्रेवश्यम्भावात् 'से गं' स खलु सूर्यः तिर्यक् परिभ्रमन् 'इमं उत्तरढलोयं' इममुत्तरदिस्थितं लोकार्द्ध 'तरियं करेइ तिर्यक् करोति 'करित्ता' कृत्वा पुनः 'दाहिणड्ढलोयं' दक्षिणार्द्धलोकं दक्षिणदिग्भवमर्द्ध लोकं 'तमेव राओ' तत्यामेव रात्रौ करोति उरत्तरार्द्ध दिनसत्त्वे दक्षिणाद्धे रात्रिसद्भावात् । एवं 'से णं' स खलु सूर्यः 'इमाई दाहिणुत्तरड्ढलोयाई' इमौ दक्षिणोत्तरार्द्धलोको दक्षिणदिक्स्थितमई लोकम् उत्तरदिस्थितमर्द्ध लोकं चेति द्वावपि लोको 'तिरियं करित्ता' तिर्यक् कृत्वा पुनः 'पुरथिमिल्लाओ लोयंताओ' पौरस्त्यात् लोकान्तात् .पूर्ववदेव "बहुई जोयणाई' बहूनि योजनानि 'बहूई जोयणसयाई' बहूनि योजनशतानि 'बहूइं जोयणसहस्साई' बनि योजनसहस्राणि 'उहंदूरं' ऊर्व दूरं उर्ध्वत्वेन दूरम् 'उप्पइत्ता' उत्पत्य उपरिगत्वा 'एस्थ णं' अत्र खलु अस्मिन् स्थाने 'पाओ' प्रातः प्रभातकाले 'सरिए' सूर्यः 'आगासंसि' आकाशे 'उत्तिट्टई' उत्तिष्ठति उद्गच्छति । उपसंहारमाह-'एगे' एके मष्टमाः परतीथिकाः 'एवमासु' एवं पूर्वोक्तप्रकारेण आहुः कथयन्तीत्यष्टमी प्रतिपत्तिः ।।
एवमष्टापि प्रतिपत्तीः प्रदर्श्य भगवान् स्वमतं प्रदर्शयति-'वयं पुण' इत्यादि । . 'वयं पुण' वयं पुनः अत्र पुनः शब्दः 'तु' इत्यस्यार्थवाचकः, तेन वयं तु 'एवं' वक्ष्यमाणप्रकारेण 'वयामो' वदामः कथयामः, तदेवाह 'ता' इत्यादि 'ता' तावत् "जबूद्दी वस्स' जम्बूद्वीपस्य द्वीपस्य मध्यजम्बूद्वीपस्य 'पाईण पडीणायय-उदीणदाहिणाययाए' प्राचीप्रतीच्यायतोदीचीदक्षिणायतया जीवया दवरिकया 'मंडलं' मण्डलं सूर्यमण्डलं 'चउव्वीसएणं' चतुर्बिशतिकेन शतेन चतुर्विशत्यधिकैकशतेन (१२४) छेत्ता' छित्त्वा विभज्य मण्डलस्य चतुर्विशत्यधिकैकशतसंख्यकान् भावान् परिकल्प्य तन्मण्डलं पुनः पूर्वोक्तजीवया चत्वारो भागाः क्रियन्ते दक्षिणपूर्वोत्तरपश्चिमरूपाः अतस्तत्राह-'दाहिणपुरथिमिल्लंसि' दक्षिणपौरस्त्ये, 'उत्तरपच्चथिमिल्लंसि' उत्तरपौरस्त्ये च एतद्रूपे 'चउम्भागमंडलंसि' चतुर्भागगमण्डले मण्डलचतुर्भागे एकत्रिंशत्प्रमाणरूपे 'इमी से' अस्याः शास्त्रप्रसिद्धायाः 'रयणप्पभाए पुंढवीए' रत्नप्रभायाः पृथिव्याः ‘बहुसमरमणिज्जाओ भूमिभागाओ' बहुसमरमणीयात् भूमिभागात् रत्नप्रभापृथिवीसमतलभागात् 'अट्ठजोयणसयाई' अष्ट योजनशतानि-अष्टशतसंख्यकयोजनानि 'उड्डं' उर्व उपरि 'उप्पइत्ता' उत्पत्य-गत्वा रत्नप्रभापृथिवीसमतलभागादुपरि अष्टशतयोजनातिक्रमणानन्तरमित्यर्थः 'एत्थ णं' अत्र खलु अस्मिन् स्थाने 'पाओ' प्रातः 'दुवे