SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०२-१ सू०१ सूर्यस्य द्वितीयषण्मासाहोरात्रे क्षेत्रसंचरणम् १०५ ऽपि 'अवरभूपुरथिमिल्लाओ लोयंताओ' अपरभूपौरस्त्यात् लोकान्तात् अवः पृथिवीसम्बन्धिपूर्वदिग्भागात् 'पाओ' प्रातः 'सूरिए' सूर्यः 'पुढवीकार्यसि' पृथिवीकाये पुनरुदयाचलपर्वतमस्तके 'उत्तिहइ' उत्तिष्ठति उदयमेति उपसंहारमाह-'एगे' एके पञ्चमाः परतीथिका 'एवं' पूर्वोक्तप्रकारेण 'आहंस' आहुः कथयन्तं ति पश्चमी प्रतिपत्तिः ।५। अथ षष्ठीमाह-'एगे पुण' एके केचन षष्ठमतवादिनः पुनः ‘एवमासु' एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति, तदेवाह'ता' तावत् 'पुरथिमिल्लाओ लोयंताओ' पौरस्त्यात् लोकान्तात् 'पाओ' प्रातः 'सूरिए' सूर्यः 'आउकायंसि' अप्काये पूर्वदिग्वतिसमुद्रे 'उत्तिट्टइ' उत्तिष्ठति 'से णं' स खलु सूर्यः 'इमं लोयं' इमं लोकं मनुष्यलोकं 'तिरियं करेई' तिर्यक् करोति 'करित्ता' कृत्वा 'पच्चत्थिमिल्लसि लोयंतसि' पाश्चात्ये लोकान्ते 'सायं' सायं सन्ध्यासमये 'आउकायंसि' अप्काये पश्चिमदिग्वर्तिसमुद्रे विद्धंसइ' विध्वंसते ध्वंसमेति । उपसंहारः ‘एगे' एके षष्ठाः षष्ठप्रतिपत्ति वादिनः 'एवमाहंसु' एवं पूर्वोक्तरोत्या आहुः कथयन्तीति षष्ठी प्रतिपत्तिः ।६। अथ सप्तमी माह-एगे पुण' एके सप्तमाः पुन 'एबमाइंसु' एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति, किं कथयन्तीत्याह-'ता' तावत् पुरथिमिल्लाओ लोयंताओ' पौरस्त्यात् लोकान्तात् ऊर्ध्व 'पायो' प्रातः 'सूरिए' सूर्यः 'आउका यंसि' अप्काये पूर्वसमुद्रे उत्तिट्टई उत्तिष्ठति उद्गच्छति ‘से णं' स खलु उद्गतः सन् 'इम लोयं' इमं लोकं तिरियं करेइ' तिर्यक् करोति प्रकाशयति 'करित्ता' कृत्वा 'पच्चथिमिल्लंसि लोयंतंसि' पाश्चात्ये लोकान्ते 'सायं' सायं सन्ध्यायां 'सूरिए' सूर्यः 'आउकार्यसि' अप्काये पश्चिमीयसमुद्रे 'पविसई' प्रविशति 'पविसित्ता' प्रविश्य 'अहे' अधः अधोलोके गत्वा तं प्रकाश्य 'पडियागच्छई' प्रत्यागच्छति पुनगयाति 'पडियागच्छित्ता' प्रत्यागत्य अधोभागात्पुनरागत्य 'पुणरवि' पुनरपि द्वितीयदिने 'अवरभूपुरथिमिल्लाओ लोयंताओ' अपरभूपौरस्त्यात् लोकान्तात् अधः पृथिव्याः पूर्वदिग्भागात् 'पाओ' प्रातः 'सरिए' सूर्यः आउकायंसि' अप्काये पूर्वसमुद्रे 'उत्तिट्टइ' उत्तिष्ठति उपसंह रनाह-'एगे' एके पूर्ववर्णिताः सप्तमाः परतीर्थिकाः 'एवमासु' एवं पूर्वोक्तप्रकारेण आहुः कथयन्तीति सप्तमी प्रतिपत्तिः ।७। अथाष्टमी प्रदर्शयति-'एगे पुण' एके अष्टमाः पुनः 'एवमासु' एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति 'ता' तावत् 'पुरथिमिल्लाओ लोयंताओ' पौरस्त्यात् लोकान्तात् प्रथमं 'बहुई जोयणाई' बहूनि योजनानि, ततः क्रमशः 'बहुई जोयणसयाई' बहूनि योजनशतानि. तदनु पुनः क्रमेण 'बहुइं जोयणसहस्साई' बनि योजनसहस्राणि 'उड्ढं दुरं' ऊर्ध्वं दूरम्-ऊर्ध्वत्वेन दरम् 'उप्पइत्ता' उत्पत्य उपरि गत्वा 'एत्थ णं' अत्र खलु 'पाओ' प्रातः प्रगतसमये 'सूरिए' सूर्यः देवतारूपः 'आगासंसि'
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy