________________
१०४
चन्द्रप्रतिस्चे चरमभागे 'सायं' सायं सन्ध्याकाले 'आगासं अणुपविसई' आकाशमनुप्रविशति 'अणुपविसित्ता' अनुप्रविश्य 'अहे पडियागच्छति' अधः अधोभागेन प्रत्यागच्छति अधोलोकं प्रकाशयन् प्रतिनिवर्त्तते । एषां मते पृथिवी गोलाकाराऽत एव लोकोऽपि गोलाकार एव । इदं च मतं तीर्थान्तरीयेषु सम्प्रतिकालेऽपि विद्यते ततस्तद्गतपुराणशास्त्रादेव सम्यक ज्ञातव्यम् । अस्मिन् मतेऽपि त्रयो भेदा वर्तन्ते, तथाहि-एके मन्यन्ते सूर्य आकाशे प्रातरुद्गच्छति १, अन्ये कथयन्ति पर्वतशिरसि उद्गच्छति २, अपरे मन्यन्ते समुद्रादुत्तिष्ठति ।३। अत्र तु प्रथमानां मतमुपन्यस्तमिति । 'पडियागच्छित्ता' प्रत्यागत्य अधोलोकात्प्रतिनिवर्त्य 'पुणरवि' पुनरपि यथा पूर्वदिने तथैव भूयोऽपि 'अवरभूपुरथिमिल्लाओ लोयंताओ' अपरभूपौरस्त्यात् लोकान्तात् पृथिव्या अधोभागात् विनिर्गत्य-पूर्वदिग्वर्तिलोकान्ताद् ऊर्ध्वम् 'पाओ' प्रातः प्रभातकाले 'सरिए' सूर्यः 'पागासंसि' आकाशे 'उत्तिद्वति' उत्तिष्ठति उदयमेति । एवमेव सर्वदैव-इयं व्यवस्था वर्तते तथाविधलोकस्व भाव्यात् । उपसंहारे-'एगे' एके तृतीयाः परतीर्थिका 'एवमासु' एवं पूर्वोक्तरीत्या आहुःकथयन्तीति तृतीया प्रतिपत्तिः ।३। अथ चतुर्थीमाह-'एगे पुण' एके पुनः चतुर्थाः 'एवमाहंमु' एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति, तथाहि-'ता' तावत् पुरथिमिल्लाओ लोयंताओ' पौरस्त्यात् लोकान्तात् 'पाओ' प्रातः 'सरिए' सूर्यः देवतारूपः 'पुढिवीकार्यसि' पृथिवीकाये पृथिकायमध्ये उदयाचलाभिधपर्वतशिरसीत्यर्थः 'उत्तिट्टई' उतिष्ठति उदयमेति से णं' स खलु सूर्यः 'इमं लोयं तिरियं करेइ' इमं लोकं मनुष्यलोकं तिर्यक्करोति तिर्यक् परिभ्रमन् मनुष्यलोकं प्रकाशयतीत्यर्थः । एवमग्रेऽप्यर्थों वाच्यः । 'करित्ता' कृत्वा तिर्यक् कृत्वा 'पच्चस्थिमिल्लंसि लोयंतसि' पाश्चात्ये लोकान्ते 'सायं' सायं सन्ध्यासमये 'सरिए' सूर्यः 'पुढवी कायंसि' पृथिवीकाये अस्ताचलाभिधपर्वतशिरसि 'विद्धंसइ' विध्वंसते विलयमेति । एवं प्रतिदिनं भवति एवंविधजगत्स्थितिस्वाभाव्यादिति । उपसंहारः----'एगे' एके चतुर्थाः ‘एवं' एवम् पूर्वोक्तप्रकारेण 'आईसु' आहुः कथयन्तीति चतुर्थी प्रतिपत्तिः ।४। अथ पश्चमी प्रतिपत्तिमाह-एगे पुण'एके पश्चमाः पुनः ‘एवं' वक्ष्यमाणप्रकारेण 'आईसु' माहुः-कथयन्ति-'ता' तावत् 'पुरथिमिल्लाओ लोयंताओ' पौरस्त्याल्लोकान्तात् उर्ध्व 'पाओ' प्रातः 'मरिए' सूर्यः देवतारूपः 'पुढवीकायंसि' पृथिवीकाये 'उत्तिइ' उत्तिष्ठति उदयाचलपर्वतशिरसि उद्गच्छति 'से गं' स खलु 'इमं लोयं' इमं मनुष्यलोकं 'तिरियं करेइ' तिर्यक् करोति 'करिता' तिर्यक् कृत्वा 'पच्चथिमिल्लंसि लोयंतंसि' पाश्चात्ये लोकान्ते 'सायं' सन्ध्याकाले 'सरिए' सूर्यः 'पुतवीकायंसि' पृथिवीकाये अस्ताचलपर्वतमस्तके 'अणुपविसई' अनुप्रविशति 'अणुपविसिचा' अनुप्रविश्य 'अहे' अधः अधोभागवतिनं लोकं प्रकाशयन् 'पडियागच्छाई' प्रत्यागच्छति प्रतिनिवर्त्तते 'पडियागच्छित्ता' प्रत्यागत्य 'पुणरवि' पुनरापे द्वितीयदिवसे भूयो