SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०२-१ सू०१ सूर्यस्य द्वितीयषण्मासाहोरात्रे क्षेत्रसंचरणम् १०३ 'अट्ट' अष्टौ अष्टसंख्यकाः 'पडिवतीओ' प्रतिपत्तयः परतैर्थिकमान्यतारूपाः 'पण्णत्ताओ' प्रज्ञप्ताः 'तं जहा' तद्यथा-ता एव क्रमेणाह -'तत्थेगे' इत्यादि । 'तस्थ' तत्र तेषु अष्टसु परतीर्थिकेषु मध्ये 'एगे' एके केचन प्रथमाः परतीर्थिकाः ‘एवं' एवम्-वक्ष्यमाणप्रकारेण 'आइंसु' आहुः-कथयन्ति--'ता' तावत् 'पुरथिमिल्लाओ' लोयंताओ' पौरस्त्यात् पूर्वदिग्भागवर्तिनः लोकान्तात् लोकान्तिमभागात् ऊर्वमितिशेषः पूर्वस्यां दिशीत्यर्थः 'मरीची' इति मरीचिसंघातः किरणसमूह इत्यर्थः 'आगासंसि उसिटइ' आकाशे उत्तिष्ठति उत्पद्यते एतेनायमाशयः-नैतद्विमानं, न रथः, न च कोऽपि देवता रूपः सूर्यः किन्तु तथाविधलोकस्वाभाव्यात् एष किरणसङ्घात एव वर्तुल गोलाकारः प्रतिदिनं पूर्वे दिग्विभागे प्रातराकाशे समुत्पद्यते येन सर्वत्र प्रकाशः प्रसरति । ‘से णं' स खलु एवम्भूतः मरीचिसंघातः समुत्पन्नः सन् 'इमं' इमं दृश्यमानं 'लोयं' लोकं तिर्यक् लोकं 'तिरियं करेइ' तिर्यक् करोति तिर्यक् परिभ्रमन् एष मरीचिसंघात इमं तिर्यगूलोकं प्रकाशयतीतिभावः, 'करित्ता' कृत्वा तिर्यक् कृत्वा च 'पच्चस्थिमिल्लंसि लोयंसि' पाश्चात्ये लोकान्ते पश्चिमदिग्वर्तिलोकान्तिमभागे 'सायं' सन्ध्यासमये 'विद्धंसई' विध्वंसते तथा विधलोकानुभावात्तत्राकाश एव ध्वंसमुपयाति विलीनो भवतीति भावः। एवं सकलकालमेव भवतीति, अत्रोपसंहारमाह-'एगे एवमासु' एके प्रथमास्तीर्थान्तरीयाः एवं-पूर्वोक्तप्रकारेण आहुः-कथयन्तीति । एषा प्रथमा प्रतिपत्तिः ।१॥ द्वितीयामाह-'एगे पुण' एके केचन द्वितीया पुनः ‘एवं' एवं वक्ष्यमाणप्रकारेण आहेसु' आहुः कथयन्ति । किं कथयन्तीत्याह- 'ता' इति वाक्यालङ्कारे 'पुरथिमिल्लाओ लोयंताओ' पौरस्त्यात् लोकान्तात् पुर्वदिग्विभागात् उर्व 'पाओ' प्रातः 'सूरिए' सूर्यः लोकप्रसिद्धो देवतारूपः 'आगासंसि उतिहई' आकाशे उत्तिष्ठति उदेति तथाविधलोकस्वाभाव्यात् आकाशे उत्पद्यते 'से' स खलु उत्पन्नः सन् सूर्यः 'इमं लोयं' इमं तिर्यग्लोकं 'तिरियं करेइ' तिर्यकरोति तिर्यक परिभ्रमन् प्रकाशयतीति भावः ।' करित्ता' कृत्वा तिर्यक् कृत्वा 'पच्चथिमिल्लसि लोयंतसि' पाश्चात्ये लोकान्ते पश्चिमायां दिशि 'सायं' सायं सन्ध्याकाले 'मरिए' सूर्यः 'आगासंसि' आकाशे एव 'विद्धंसइ' विध्वंसते विलीयते इति भावः । उपसंहारमाह-एगे एवमाहंसु' एके केचन पूर्वप्रदर्शिता द्वितीयप्रतिपत्तिवादिनः एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति । इति द्वितीया प्रतिपत्तिः ।२॥ अथ तृतीयां प्रत्तिपत्तिमाह-'एगे पुण' एके पुनः तृतीयास्तीर्थान्तरीयाः 'एवमासु' एवं वक्ष्यमाणप्रकारेण आहुः-कथयन्ति, तदेव प्रदर्श्यते 'ता' तावत् 'पुरथिमिल्लाओ लोयंताओ' पौरस्त्यात् लोकान्तात् उर्व 'पाओ' प्रातः 'मूरिए' सूर्यः देवतारूपः तथाविध पुराणशास्त्रप्रसिद्धः सदावस्थायी 'आगासंसि उत्तिट्टई' आकाशे उत्तिष्ठति ‘से णं' स खलु उत्थितः सन् 'इमं लोयं तिरियं करेइ' इमं मनुष्यलोकं तिर्यक् करोति 'करित्ता' कृत्वा च 'पच्चथिमिल्लंसि लोयंतंसि' पाश्चात्ये लोकान्ते लोक
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy