SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०२ चन्द्रप्रज्ञप्ति स खलु इमं लोकं तिर्यक् करोति, कृत्वा पाश्चात्ये लोकान्ते सायं सूर्यः पृथिवीकायं विध्वंसते, एके पवमाहुः |४| एके पुनरेवमाहुः - तावत् पौरस्त्यात् लोकान्तात् प्रातः सूर्यः पृथिवीकाये उत्तिष्ठति, स खलु इमं लोकं तिर्यक् करोति, कृत्वा पाश्चात्ये लोकान्ते सायं सूर्यः पृथिवीकार्य अनुप्रविशति, अनुप्रविश्य अधः प्रत्यागच्छति प्रत्यागत्य, पुनरपि अपरभूपौरस्त्यात् लोकान्तात् प्रातः सूर्यः पृथिवीकाये उत्तिष्टति, एके पवमाहुः |५ पके पुनरेवमाहुः - तावत् पौरस्त्यात् लोकान्तात् प्रातः सूर्यः अप्काये उत्तिष्ठति स खलु इमं लोकं तिर्यक् करोति, कृत्वा पाश्चात्येलोकान्ते सायं सूर्यः अप्काये विध्वंसते, एके पवमाहु |६| एके पुनरेषमाहुः - तावत् पौरस्त्यात् लोकान्तात् प्रातः सूर्यः अपूकाये उत्तिष्ठति, स खलु इमं लोकं तिर्यक् करोति, कृत्वा पाश्चात्ये लोकान्ते सायं सूर्यः अप्काये प्रविशत, प्रविश्य अधः प्रत्यागच्छति, प्रत्यागत्य पुनरपि अपरभू पौरस्त्यात् लोकान्तात् प्रातः सूर्यः अप्काये उत्तिष्ठति, एके एवमाहुः ॥७॥ एके पुनरेवमाहुः - तावत् पौरस्त्यात् लोकान्तात् बहूनि योजनानि बहूनि योजनशतानि, बहूनि योजन सहस्राणि ऊर्ध्वं दूरम् उत्पत्य अत्र खलु प्रातः सूर्यः अकाशे उत्तिष्ठति, स खलु इमं दक्षिणार्ध लोकं तिर्यक् करोति कृत्वा उत्तरार्धलोकं तस्यामेव रात्रौ स एव इमं उत्तरार्धलोकं तीर्थक् करोति कृत्वा दक्षिणार्धलोकं तस्यामेव रात्रौ स खलु इमा दक्षिणोत्तरार्धलोकौ तिर्यक् कृत्वा पौरस्त्यात् लोकान्तात् बहूनि योजनानि बहूनि योजनशतानि बहूनि योज - नसहस्राणि ऊर्ध्वं दूरम् उत्पत्य अत्र खलु प्रातः सूर्यः आकाशे उत्तिष्ठति, पके एवमाहुः |८| वयं पुनरेवं वदामः तावत् जम्बूद्वीपस्य द्वीपस्य प्राचीप्रतीच्यायतोदीची दक्षिणायतया जीवया मण्डलं चतुर्विंशतिकेन शतेन छित्त्वा दाक्षिणपौरस्त्ये उत्तरपाश्चात्ये च चतुर्भागमण्डले अस्या रत्नप्रभायाः पृथिव्याः बहुसमरमणीयात् भूमिभागात् अष्टयोजनशतानि ऊर्ध्वम् उत्पत्य अन खलु प्रोतः द्वौ सूर्यो उत्तिष्ठतः, तौ खलु इमौ दक्षिणोत्तरौ जम्बूद्वीपभागौ तिर्यक् कुरुतः, कृत्वा पौरस्त्यपाश्चात्यो जम्बूद्वीपभागौ तस्मामेव रात्रौ तो खलु इमौ पौरस्त्यपाश्चात्यो जम्बूद्वीपभागौ तिर्यक् कुरुतः, कृत्वा दक्षिणोत्तरौ जम्बूद्वीपभागौ तस्यामेव रात्रौ तौ खलु इमौ दक्षिणोत्तरौ पौरस्त्यपाश्चात्यौ च जम्बूद्वीपभागौ तिर्यक् कुरुतः, कृत्वा जम्बूद्वीपस्य द्वीपस्य प्राची प्रतीच्यायतोदीचीदक्षिणायतया जीवया मण्डलं चतुर्विंशतिकेन शतेन छित्वा दक्षिणपौरस्त्ये उत्तरपाश्चात्ये च चतुर्भागमण्डले अस्याः रत्नप्रभाया पृथिव्याः बहुसमरमणीयात् भूमिभागात् अष्ट योजनातानि ऊर्ध्वम् उत्पत्य, अत्र खलुं प्रातः द्वौ सूर्ये आकाशे उत्तिष्ठतः ॥ सू० १ ॥ ॥ द्वितीयस्य प्राभृतस्य प्रथमं प्राभृतप्राभृतं समाप्तम् ||२-१ व्याख्या - 'ता' तावत् - प्रथम प्रष्टव्यप्रभूते विषये सत्यपि प्रथममेतावदेव पृच्छामि यत् ‘कहूं' कथं केन प्रकारेण 'ते' भवतो मते 'तिरिच्छगई' तिर्यग्गतिः तिर्यक्तया परिभ्रमण सूर्यस्य 'आहिता' आख्यता ? ' इति वदेज्जा' इति वदेत् वदतु हे भगवन् !, गौतमेन एवं पृष्टे भगवन् प्रथममेतद्विषये परतीर्थिक मिथ्याभावोपदर्शनाय तेषां मान्यतारूपा अष्टप्रत्तिपत्तीः प्रदर्शयति 'तत्थ खलु' इत्यादि । 'तत्थ' तत्र सूर्यस्य तिर्यग्गतिविषये खलु 'इमाओ' इमाः वक्ष्यमाणाः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy