SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ चद्रतिप्रकाशिका टीका प्रा० १८ सू० १५ द्वितीयषण्मासे सूर्यपरिभ्रमणम् ९५ स्येति । तथा 'तिणि जोयणसय सदस्साई' त्रीणि योजनशतसहस्राणि त्रिलक्ष योजनानि, 'अट्ठा रससहस्साई' अष्टादशसहस्राणि 'दोणि य एगूणासीई जोयणसयाई' द्वे च एकोनाशीतिः योजनशते एकोनाशीत्यधिके द्वेशते च योजनानाम् (३१८२७९) 'परिक्खेवेण' परिक्षेपेण परिधिना विद्यते । तथाहि - अस्मात् प्राक्तनमण्डलस्य परिधिपरिमाणम् (३१८२९७ ) इत्येवं रूपम् । प्राक्तन मण्डलविष्कम्भपरिमाणादिदं मण्डलं योजनस्य पञ्चत्रिंशदेकषष्टिभागसहितैः पञ्चभिर्योजनैर्विष्कम्भतो न्यूनमस्ति, विष्कम्भन्यूनत्वे परिक्षेपन्यूनत्वस्यावश्यंभावात् पञ्चानां योजनानां पञ्चत्रिंशदे कषष्टिभागसहितानां परिधिप्रमाणं व्यवहारतोऽष्टादशयोजनानि लभ्यन्ते तानि च पूर्वमण्डलपरिमाणात् (३१८२९७) इत्येवं रूपात् अष्टादश हीनाः क्रियन्ते तत आगतं यथोक्तं ( ३१८२७९) परिधिपरिमाणम् । 'तया णं' तदा तस्मिन् काले खलु एतद्रूपपरिक्षेपपरिधिपरिमाणसमये इत्यर्थः, ‘अट्ठारसमुहुता राई भवः' अष्टादशमुहूर्त्ता रात्रिर्भवति किन्तु 'चउहिं एगसद्विभागमुहुत्तेर्हि ऊणा' चतुर्भिरकषष्टिभागमुहूर्तेरूना हीना भवति । तथा ' दुबालसमुहुत्ते दिवसे भव' द्वादश मुहूर्ती दिवसो भवति, स च 'चउहिं एगसट्टिभागमुहुत्तेहिं अहिए' चतु. भिरेक षष्टिभागमुहूर्त्तेरधिको भवतीति । 'एवं खलु' इत्यादि ' एवं ' एवम् अनेन प्रकारेण खलु - निश्चितम् 'एएणं' एतेन पूर्वोक्तेन 'उवाएणं' उपायेन युक्तिना 'पविसमाणे' प्रविशन् सर्वाभ्यन्तरमण्डलं प्रतिगच्छन् 'सूरिए' सूर्य: ' तयाणतराओ मंडलाओ' तदनन्तराद् मण्डलाद् ' तयाणंतरं मंडलं' तदनन्तरं तदप्रेननं मण्डलं 'संकममाणे २' संक्रामन् २ 'पंच पंच जोयणाई' पञ्च पञ्च योजनानि 'पण - तसंच एगसद्विभागे जोयणस्स' पञ्चत्रिंशच्च एकषष्टिभागान् योजनस्य ' एगमेगे मंडले' एकैकस्मिन् मण्डले 'विक्खंभवुर्द्धि' विष्कम्भवृद्धि 'निव्वुड्ढेमाणे २' निर्वर्धयन् २ ' हाप - यन् २' होनां कुर्वन् २ इत्यर्थः, तथा 'अट्ठारसजोयणाई' अष्टादशयोजनानि 'परिरयबुद्धिं' परिरयवृद्धिं परिधिपरिमाण वृद्धिं 'निव्वुड्ढेमाणे २' निर्वर्धयन् २ हापयन् २ ' सव्वन्भं. तर मंडल' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति सर्वाभ्य. न्तरमण्डले परिभ्रमतीत्यर्थः 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्यः 'सव्वब्भंतरं मंडल' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'सा मंडलवया' तन्मण्डलपदम् ' अडयालीस एगसद्विभागा जोयणस्स' अष्टचत्वारिंशदेकष. ष्टिभागा योजनस्य ' बाहल्लेणं' बाहल्येन, तथा 'णवणवइजोयणसहस्साई' नवनवतियो. जनसहस्राणि 'छच्च चत्ताले जोयणसयाई' षट् च चत्वारिंशद् योजनशतानि चत्वारिंशदधिकषट् शतयोजनानि (९९६४०) 'आयाम विक्खंभेणं' आयामविष्कम्भेण । तथा 'तिणि जोयण 1
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy