SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे सहस्साई' अष्टादशसहस्राणि 'दोण्णि य सत्ताणउए जोयणसयाई द्वे च सप्तनवतिःयोजनशते सप्तनवत्यधिकद्विशतोत्तराष्टादशसहस्राधिकत्रिलक्षयोजनानि (३१८२९७) 'परिक्खेवेणं' परिक्षेपेण वर्तन्ते । कथमेतदवसीयते ? इत्याह पूर्वमण्डलात् अस्य मण्डलस्य आयामविष्कम्भपरिमाणे पंच योजनानि पंचत्रिंशच्च एकषष्टिभागा योजनस्य न्यूनत्वेन भवितुमर्हन्ति सूर्यस्याभ्यन्तरगतिकत्वात् पंचत्रिंशदेकषष्टिभागसहितानां पंचानां योजनानां (५-२१) परिरये निश्चयनयमतेन सप्तदशयोजनानि अष्टत्रिंशच्चैकषष्टिभागा योजनस्य लभ्यन्ते किन्तु सूत्रकृता व्यवहारनयमाश्रित्य परिपूर्णानि अष्टादश योजनानि कथितानि । प्रागुक्तात् सर्वबाह्यमण्डलपरिधिपरिमाणात् पंचदशोतरशतत्रयाधिकाष्टादशसहस्रोत्तरत्रिलक्ष(३१८३१५) रूपात् अष्टादशयोजनानि शोध्यन्ते ततो जातं यथोक्त सप्तनवत्यधिकद्विशतोत्तराष्टादशसहस्राधिकत्रिलक्षयोजन (३१८२९७) परिमितपरिधिपरिमाणं भवतीति । 'तया णं' तदा खलु 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहूर्ता रात्रिर्भवति किन्तु ‘सा दोहिं एगसद्विभागमुहुत्तेहि' द्वाभ्यामेकषष्टिभागमुहूर्ताभ्याम् 'ऊणा' ऊना होना भवति तथा 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहूत्तों दिवसो भवति, स च दोहिं एगसट्ठिभागमुहुत्तेहि' द्वाभ्यामेकषष्टिभागमुहूर्ताभ्याम् 'अहिए' अधिको भवतीति । 'से पविसमाणे' ततः 'से' सः 'पविसमाणे' प्रविशन् 'मूरिए' सूर्यः दोच्चंसि अहोरत्तंसि' द्वितीयेऽहोरात्रे 'बाहिर' बाह्यं बाह्यमार्गात्प्राप्तं तच्चं मंडलं' तृतीयं मण्डलम् 'उबसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'मरिए' सूर्यः बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरई' बाह्यं तृतीयं मंण्डलम् उपसंक्रम्य चारं चरति । 'तया णं' तदा खल्ल तद् मण्डलपदम् 'अडयालीसं एगसट्ठिभागा जोयणस्स' अष्टचत्वारिंशदेकषष्टिभागा योजनस्य 'बाहल्लेणं' बाहल्येन । एगं जोयणसयसहस्सं' एकं योजनशतसहस्रम् एकलक्षयोजानानि 'छच्च अडयाले जोयणसयाई' षट् च अष्टचत्वारिंशद्योजनशतानि अष्टचत्वारिंशदधिकषदशतयोजनानि 'बावण्णं च एगसट्ठिभागा जोयणस्स' द्विपञ्चाशच्च एकषष्टिभागा योजनस्य (१००६४(5) एतावत्परिमितम् 'आयामविक्खंभेणं' आयामवि कर मेण, एतत्परिमाणं कथं लभ्यते ! तत्प्रदर्श्यते, तथाहि-अस्मात् प्राक्तनमण्डलस्यायामवि ष्कम्भपरिमाणं लक्षमेकं चतुष्पञ्चाशदधिकषट्शतोत्तरम् , षइविंशतिश्चैकषष्टिभागा योजनस्य (१००६५४२६ वर्तते, एतत्परिमाणात् पूर्वमण्डलात् पञ्चयोजनानि पञ्चत्रिंशच्चैकषष्टि भागाः (५-३५) शोभ्यन्ते तत आगतं पूर्वोत्तमायामविष्कम्भपरिमाण तृतीयमण्डलपद
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy