________________
चन्द्रप्रज्ञप्तिसूत्रे शदेकषष्टिभागा योजनस्य 'बाहल्लेणं' बाहल्येन, ‘णवणवइजोयणसहस्साई' नवनवतियोजनसहस्राणि 'छच्च एकावण्णे जोयणसयाई' षट् च एकपञ्चाशद् योजनशतानि 'णव य एगसद्वि भागा जोयणस्स' नव च एकषष्टिभागा योजनस्य एकपञ्चाशदधिकषट्शत्तोत्तरनवनवतिसहस्रयोजनानि योजनस्य नवैकपष्टिभागसमधिकानि (९९६५१-९।६१) 'आयामविक्खभेणं' आयामविष्कम्भेण वर्तन्ते, ।
___ कथमेतत्परिमाणं लभ्यते ? इति प्रदर्श्यते-पूर्ववदत्रापि प्रतिमण्डलचारं वृद्धिमर्यादया पश्चयोजनानि पञ्चविंशच्चैकषष्टिभागा योजनस्य (५-२१) पूर्व मण्डलायामविष्कम्भपरिमाणादधिकत्वेन प्राप्यन्ते ततो भवति यथोक्तमायामविष्कम्भपरिमाणं ( ९९५१ :) तथा च-पूर्वमण्डलायामविष्कम्भपरिमाणं पञ्चचत्वारिंशदधिकषट्शतोतरनवनवतिसहस्रयोजनानि पञ्चत्रिंशच्चैकषष्टिभागाः ।
पञ्चयोजनानि
तन्मध्ये
पञ्चत्रिशच्चैकषष्टिभागा योजनस्य (
(९९६४५-३५) संयोज्यन्ते यथा
५-३५
(९९६५०-७०) संयोजनेन समागताः सप्ततिसंख्यका (७०) एक षष्टिभागास्ते एकषष्टया ६१ विभज्यते लब्धमेकं योजनं तद् योजनसंख्यायां प्रक्षिप्यते शेषाः नव- एक षष्टिभागाः स्थिता इति जातं यथोक्तं परिमाणम् (९९६५१३) इति ।
'तिण्णि जोयणसयसहस्साई' त्रीणि योजनशतसहस्राणि 'पण्णरस य सहस्साई' पञ्च दश च सहस्राणि 'एगं च पणवीसं जोयणसयं' एकं च पञ्चविंशतिः योजनशतम्-पञ्च विंशत्यधिकशतोत्तरपञ्चदशसहस्राधिकं-लक्षत्रयं योजनानाम् (३१५१२५) 'परिक्खेवेणं' परिक्षेपेण परिधिना वर्तन्ते सर्वाणि मण्डलपदानीति ।
कथमेतत् परिधिपरिमाणमुपलभ्यते ! इति प्रदर्श्यते तथाहि पूर्वमण्डलपरिधिपरिमाण-(३१. ५१०७) मध्ये अष्टादशयोजनानि अधिकत्वेन प्रक्षिप्यन्ते ततो भवति सूत्रोक्तमेतन्मण्डलपरिधिपरिमाण पञ्चविंशत्यधिकशतोत्तरपञ्चदशसहस्राधिकत्रिलक्षयोजनपरिमितं (३१५१२५) भवतौति । अत्र निश्चयनयमतेन तु सप्तदशयोजनानि अष्ट त्रिंशच्चैकषष्टिभागाः (१७