SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०-१-८ सू० १४ मण्डलपदानां प्रमाणनिरूपणम् ८७ तदा पूर्वोक्तपरिस्थितौ खलु ‘अट्ठारसमुहुत्ते दिवसे भबई' अष्टादशमुहूत्तों दिवसो भवति किन्तु सः 'दोहि एगसद्विभागमुहुत्तेहि' द्वाभ्यामेकषष्टिभागमुहूर्ताभ्याम् 'ऊणे' ऊनः हीनो भवति, तथा 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्ता रात्रिभवति सा च 'दोहिं एगसद्विभागमुहुत्तेहिं' द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्याम् 'अहिया' अधिका भवतीति । कथमेतदायामविष्कम्भयोः परिधेश्च परिमाणं लभ्यते इति तदेव प्रदर्शयामः, तत्र प्रथममायामविष्कम्भयोः परिमाणं प्रदर्श्यते, तथाहि-एकः सूर्यो द्वे योजने एकस्य योजनस्य सर्वाभ्यन्तरमण्डलगताष्टचत्वारिंशदेकषष्टिभागांश्च-(२-४८।६१) बहिरवष्टभ्य द्वितीये मण्डले चारं चरति । एवमेव द्वितीयोऽपि सूर्यो द्वे योजने, सर्वाभ्यन्तरमण्डलगताष्टचत्वारिंशदेकषष्टिभागांश्च (२-४८।६१) बहिरवष्टभ्य पुनर्द्वितीये मण्डले चारं चरति ततो द्वयोः संमेलने जातानि पञ्चयोजनानि तदुपरि योजनस्य पञ्चत्रिंशदेकषष्ठिभागाश्च (५-३५।६१) भवन्ति । एषा संख्या प्रथममण्डलायामविष्कम्भपरिमाण (९९६४०) मध्येऽधिकत्वेन प्रक्षिप्यते ततो जातं यथोक्तमायामविष्कम्भपरिमाणं पञ्चचत्वारिंशदधिकषट्शतोत्तरनवनवतिसहस्रयोजनानि, पञ्चत्रिंशच्चैकषष्टिभागा योजनस्य (९९६४५-३५।६१) इति । इदमायाविष्कम्भपरिमाण लब्धम् । परिधिपरिमाणमेवं लभ्यते, तथाहि-पञ्चयोजनानि, पञ्चत्रिंशच्चैकषष्टिभागा योजनस्य, इत्यस्य सर्वे. एक षष्टिभागाः क्रियन्ते तदर्थ पञ्च योजनानि एकषष्टया गुण्यन्ते, जातानि पञ्चोत्तराणि त्रीणि शतानि (३०५) एषु एकषष्टिभागेषु उपरितनाः शेषाः ये पञ्चत्रिंशत् (३५) एकषष्टिभागास्ते प्रक्षिप्यन्ते ततो जातानि चत्वारिंशदधिकानि त्रीणि शतानि (३४०) एतेषां वर्गकरणात् जातं षट् शताधिकपञ्चदशसहस्रोत्तरमेकं लक्षम् (११५६००) एषोऽङ्कसमुदायो दशभिर्गुण्यते ततो जाता एकशून्याधिका पूर्वोक्ता संख्या (११५६०००)। एषां वर्गमूलानयने लभ्यते पञ्चसप्तत्यधिकमेकं सहस्रम् (१०७५) । अस्य योजनकरणार्थमेकषष्टया भागो हियते तदा लब्धानि सप्तदशयोजनानि अष्टत्रिंशच्च एकषष्टिभागा योजनस्य (१७-३८।६१) शेषाऽष्टत्रिंशदूपासंख्या तिष्ठति सा त्यक्ता । एतत् (१७-३८।६१) पूर्वमण्डलपरिधिपरिमाण (३१५०८९) मध्येऽधि कत्वे प्रक्षिप्यते ततो जातं यथोक्तं परिधिपरिमाणं सप्तोत्तरशताधिकपञ्चदशसहस्रोत्तरं लक्षत्रयम् (३१५१०७) किञ्चिद्विशेषोनं-किश्चिदूनत्रयोविंशत्येकषष्टिभागानां होनत्वादिति । 'से णिक्खममाणे सुरिए' स निष्क्रामन् सूर्यः 'दोच्चंसि अहोरत्तंसि' द्वितीयेऽहोरात्रे अभितरं मंडलं' अभ्यन्तरम् अभ्यन्तरसम्बन्धित्वादभ्यन्तरं तृतीयं मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'सरिए' सूर्यः 'अभितरं तच्चं मंडलं' अभ्यन्तरं तृतीय मण्डलम् "उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति । 'तया णं' तदा खलु 'सा मंडलवया' तानि मण्डलपदानि 'अडयालीसं एगसद्विभागा जोयणस्स' अष्टचत्वारिं
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy