SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०१-८ सू०१४ मण्डलपदानां प्रमाणनिरूपणम् ८९ प्रक्षेपकराशिरस्ति किन्तु . सूत्रकृता व्यवहारनयमनुसृत्य परिपूर्णाष्टादशयोजनानि कथितानि लोके हि व्यवहारनयेन किञ्चिदूनराशेरपि परिपूर्णत्वेन व्यवहियमाणत्वात् । पूर्वमण्डलपरिमाणे 'किंचिविसेसूर्ण' इति प्रोक्तं तदपि व्यवहारनयमतेन परिपूर्णमिव विवक्ष्यते । तथाचोक्तम्-- "सत्तरसजोयणाइं अट्टतीसं च एगसहिभागा, एवं निच्छएणं, सववहारेण पुण अट्ठारसजोयणाई" इति 'सप्तदशयोजनानि अष्टत्रिंशच्च एकषष्टिभागा एतत् निश्चयेन, सव्यवहारेण पुनः अष्टादशयोजनानि" इति छाया । "तया णं' तदा खलु 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहूर्तो दिवसो भवति किन्तु सः 'चउहि एगसद्विभागमुहुत्तेहिं' चतुर्भिरेकषष्टिभागमुहूर्तेः 'उणे' उनः हीनो भवति, तथा 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्त्ता रात्रिर्भवति, सा च 'चउहि एगसद्विभागमुहुत्तेहिं' चतुर्भिरेकषष्ठिभागमुहूर्तेः 'अहिया' अधिका भवति । 'एवं' एवम् अनेनैव प्रकारेण खलु 'एएणं' एतेन पूर्वोक्तेन 'उवाएणं' उपायेन विधिना 'णिक्खममाणे मूरिए' निष्कामन् सूर्यः 'तयाणंतराओ मंडलाओ' तदनन्तरात् पूर्वमण्डलादनन्तरस्थितात् यत्र सूर्यो वर्तते तस्मादित्यर्थः मण्डलात् 'तयाणंतरं मंडलं' तदनन्तरं मण्डलं तदने स्थितं मण्डलम् 'उवसंकममाणे २, उपसंक्रामन् २ 'पंच जोयणाई' पञ्च योजनानि 'पणतीसं च एगसटिभागे जोयणस्स' पञ्चत्रिंशतं च एकषष्टिभागान् योजनस्य (५३१) एगमेगे मंडले' एकैकस्मिन् मण्डले प्रत्येकमण्डले इत्यर्थः 'विक्खंभबुद्धि' विष्कम्भवृद्धिम् 'अभिबुड्ढेमाणे २' अभिवर्धयन् २ तथा 'अट्ठारस २ जोयणाइं' अष्टादश २ योजनानि 'परिरयढि ' परिरय. वृद्धिं परिधिवृद्धिम् 'अभिवड्ढेमाणे २' अभिवर्धयन् २ 'सव्वबाहिरं मंडलं' सर्वबाह्य मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्यः 'सव्वबाहिरं मंडलं' सर्वबाह्यं मण्डलम् ‘उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं सा मंडलवया' तदा खलु तत् मण्डलपदम् 'अडयालिसं एगसद्विभागा जोयणस्स' अष्टचत्वारिंशदेकषष्टिभागा योजनस्य 'बाहल्लेणं' बाहल्येन सन्ति 'एग जोयणसहस्सं' एकं योजनसहस्रं 'छच्च सही जोयणसयाई' षट् षष्टिः योजनशतानि षष्ट्यधिकानि पद शतानि योजनानां षष्ट्याधिकषट्शतोत्तरैकलक्षयोजनानि (१००६६०) 'आया मविक्खं भेणं' आयामविष्कम्भेण तथा 'तिन्नि जोयणसयसहस्साई' त्रीणि योजनशतसहस्राणि 'अट्ठारससहस्साई' अष्टादशप्तहस्राणि 'तिण्णि य पण्णरसुत्तराई जोयणसयाई' त्रीणि च पञ्चदशोत्तराणि योजनशतानि-पञ्चदशाधिकत्रिशतोत्तराष्टादशसहस्राधिकत्रिलक्षयोजनानि (३१८३१५) परिक्खेवेणं' परिक्षेपेण परिधिना वर्तन्ते ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy