SearchBrowseAboutContactDonate
Page Preview
Page 904
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १०० एकोनविशतितम'प्राभृतम् ८९३ योगमयुञ्जन् युञ्जन्ति वा योक्ष्यन्ति वा, एकं षट् पश्चाशत् महाग्रहसहस्रं चारं अचारयन् वा चरन्ति वा चरिष्यन्ति वा अष्टौ शतसहस्राणि त्रीणि सहस्राणि सप्त च शतानि एकशशि परिवारः। तारागणकोटिकोटयः शोभामशोभयन् वा शोभयन्ति वा शोभिष्यन्ति वा, धात्रिखण्डपरिग्यः एकचत्वारिंशत् दशोनराणि शतसहस्त्राणि, नव च शतानि, एकपष्टिः किंचित विशेषेण परिहीना ॥१॥ चतुर्विशतिः शशिरवयः नक्षत्रशतानि च त्रीणि पट्त्रिंशानि । एकं च महाग्रहसहस्रं षट् पञ्चाशत् धात्रिखण्डे ॥२॥ अष्टौ च शतसहस्राणि त्रीणि सहस्राणि सप्त च शतानि । धात्रिखण्डे द्वीपे तारागणकोटिकोटीनां ॥३॥ तावत् धात्रिखण्डे खलु द्वीपे कालयमनो नाम समुद्रः वृत्तः वलयाकारसस्थितः यावत् न विषमचक्रवालसंस्थानसंस्थितः तावत् कालोयनः खलु समुद्रः कियता चक्रवालविष्कम्भेन कियता परिक्षेपेन आख्यात इति वदेत् ? तावत् कालोयनः खलु समुद्रः अष्टयोजन सहस्राणि चक्रवाल विष्कम्भेन प्रज्ञप्तः, एकनवतियोजनशतसहस्राणि सप्तति च सहस्राणि षट् च पश्चोत्तराणि योजनशतानि किश्चित् विशेषाधिकानि परिक्षेपेण आख्यातानि इति वदेत , तावत् कालोयने खलु समुद्रे कियन्श्चन्द्रा प्राभासयन् वा प्रभासयन्ति वा प्रभासयिष्यन्ति वा ? इति पृच्छा, तावत् कालोयने समुद्रे द्वाचत्वारिंशत् चन्द्रा प्राभासयन् वा प्रभासयन्ति वा प्रभासयिष्यन्ति वा, द्वाचत्वारिंशत् सूर्याः अतापयन् वा तपन्ति वा तापयिष्यन्ति वा, एकादश द्वासप्तति नक्षत्रशतानि योगं अयुश्चन् वा युञ्जन्ति वा योक्ष्यन्ति वा, त्रीणि सहस्राणि पट् च षण्णवति महाग्रहाश्चारमचारयन् वा चरन्ति वा चरिष्यन्ति वा, अष्टाविंशतिश्च सहस्राणि द्वादशशतसहस्राणि नव च शतानि पञ्चाशत् तारागणकोटिकोटयः शोभामशोभयन् वा शोभयन्ति वा शोभिष्यन्ति वा, एकनवति सप्तति सहस्राणि परिरयस्तस्य । आख्यातानि पटू पश्चोत्तराणि कालोदधिवरस्य ॥१॥ द्वाचत्वारिंशच्चन्द्रा द्वाचत्वारिंशच्च दिनकरादिष्टा । कालोदधौ एते चरति सम्वद्धलेश्याकाः॥शा नक्षत्रसहस्रमेकमेव षट् सप्तति च शतमन्यानि, षट् च शतानि षण्णवति महाग्रहा त्रीणि सहस्राणि ॥३॥ अष्टाविंशति कालोदधौ द्वादश च सहस्राणि । नव च शतानि पञ्चाशत् तारागणकोटिकोटयः ॥४॥ तावत् कालोयनः खलु समुद्रः पुष्करवरे नामद्वीपे वृत्ते वलयाकारसंस्थानसंस्थिते सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति, ता पुष्करवरः खलु द्वीपः किं समचक्रवालसंस्थितः विषमचक्रवालसंस्थितः ? तावत् समचक्रवालसंस्थितः न विषम चक्रवालसंस्थितः तावत पुष्करवरे खलु द्वीपे कियता समचक्रवालविष्कम्भेण ? कियता परिक्षेपेण ?, तावत् षोड्श योजनशतसहस्राणि चक्रवालविष्कम्भेन एका योजनकोटिः द्वानवति च शतसहस्राणि ऊन पञ्चाशच्च सहस्राणि अष्टौ चतुर्नवति योजनशतानि परिक्षेपेण आख्यातानीति वदेत्, तावत् पुष्करवरे खलु द्वीपे कियाश्चन्द्रा प्राभासयन् वा प्रभासन्ति वा प्रभासयिष्यन्ति वा पृच्छा? तथैव तावत् चतुश्चत्वारिंशत् चन्द्रशतानि प्राभासयन् वा प्रभासयन्ति वा प्रभासयिष्यन्ति वा, चतुश्चत्वारिंशत् सूर्याणां शतमतापयन् वा तापयन्ति वा तापयिष्यन्ति वा, चत्वारि सहस्राणि द्वात्रिंशच्च नक्षत्राणि योगमयुञ्जन् वा युञ्जन्ति वा योक्ष्यन्ति वा, श्री सुर्यप्रति सूत्र : २
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy