SearchBrowseAboutContactDonate
Page Preview
Page 903
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे ग्रहाश्वारमचारयन् वा चरन्ति वा चारिष्यन्ति वा ? कियत्यस्तारागणकोटिकोटयः शोभामशोभयन् वा शोभयन्ति वा शोभिष्यन्ति वा?, तावत् जम्बूद्वीपद्वीपे द्वौ चन्द्रौ प्रभासितवन्तौ वा प्रभासेते वा प्रभासिष्ये ते वा, द्वौ सूर्यो तापितवन्तौ वा तापयतः तापयिष्यतः, पट् पञ्चाशन्नक्षत्राणि योगमयुञ्जन् वा युञ्जन्ति वा योक्ष्यन्ति वा । द्वासप्तति - ग्रहशतानि चारमचारयन् वा चरन्ति वा चरिष्यन्ति वा, एकं शतसहस्रं त्रयोविंशति सहस्राणि नवशतानि पञ्चाशत् तारागणकोटिकोटयः शोभामशोभयन् वा शोभयन्ति वा शोभिष्यन्ति वा ॥ ( द्वौ चन्द्रौ द्वौ सूर्यौ नक्षत्राणि भवन्ति षट् पञ्चाशत् । द्वासप्तति ग्रहशतानि जम्बूद्वीपे विचरन्ति ॥ १ ॥ एकं च शतसहस्रं त्रिंशत् खलु भवन्ति सहस्राणि । नव च शतानि पञ्चाशत् तारागण कोटिकोटिनां ||२||) तावत् जम्बूद्वीपः खलु द्वीपः लवणो नाम समुद्रः वृत्तः वृत्तः वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति तावत् लवणः खलु समुद्रः किं समचक्रवालसंस्थितः विषमचक्रवालसंस्थितः ?, तावत् लवणसमुद्रः समचक्रवालसंस्थितः न न विषमचक्रवालसंस्थितः, तावत् लवणसमुद्रः कियता चक्रवालविष्कम्भेन कियता परिक्षेपेण आख्यात इति वदेत् । तावत् द्वे योजनसहस्त्रे चक्रवालविष्कम्भेन पञ्चदश योजनशतसहत्राणि एकाशीतिसहस्राणि शतं च ऊन चत्वारिंशत् किश्चित् विशेषोनं परिक्षेपेण आख्यात इति वदेत् । तावत् लवणसमुद्रे कियन्तश्चन्द्राः प्राभासयन् वा प्रभासयन्ति वा प्रभासयिष्यन्ति वा ? एवं पृच्छा, यावत् कियत्यस्तारागणकोटिकोट्यः शोभामशोभयन् वा शोभयन्ति वा शोभिष्यन्ति वा ? तावत् लवणे खलु समुद्रे चत्वारश्चन्द्राः प्राभासयन् वा प्रभासयन्ति वा प्रभासयिष्यन्ति वा चत्वारः सूर्याः अतापयन् वा तापयन्ति वा तापयिष्यन्ति वा, द्वादशनक्षत्रशतानि योगमयुञ्जन् वा युञ्जन्ति वा योक्ष्यन्ति वा ? त्रीणि द्वापञ्चाशत् महाग्रहशतानि चारमचारयन् वा चरन्ति वा चरिष्यन्ति, द्वे शतसहस्रे सप्तषष्टि च सहस्राणि नव च शतानि तारागण कोटिकोटीनां शोभामशोभयन् वा शोभयन्ति वा शोभिष्यन्ति वा, पञ्चदश शतसहस्राणि एकाशीति शतानि ऊन चत्वारिंशञ्च किञ्चित् विशेषोनः लवणोदधेः परिक्षेपः ॥ १ ॥ चत्वारश्चैव चन्द्राः चत्वारश्च सूर्या लवणतोये । द्वादशनक्षत्रशतानि ग्रहाणां त्रयएव द्वापश्चाशत् ||२|| द्वे एव शतसहस्रे सप्तषष्टि खलु भवन्ति सहस्राणि । नव च शतानि लवण जले तारागण कोटिकोटीनां ||३|| तावत् लवणसमुद्रे धात्री खण्डो नाम द्वीपः वृत्तः वलयाकारसंस्थितस्तथैव यावत् न विषमचक्रवालसंस्थितः, धात्रीखण्डे खलु द्वीपे कियता चक्रवालविष्कम्भेन कियता परिक्षेपेण आख्यात इति वदेत् ? । तावत् चत्वारि योजनसहस्राणि चक्रवालविष्कम्भेन एकचत्वारिंशद्योजनशतसहस्राणि दश च सहस्राणि नव च एकषष्टियोजनशतानि किञ्चित् विशेषोनानि परिक्षेपेन आख्यातानि इति वदेत्, धात्रिखण्डे द्वीपे कियन्तश्चन्द्राः प्राभासयन् वा प्रभासयन्ति वा प्रभासयिष्यन्ति वा ?, इति पृच्छा, तथैव धात्रिखण्डे खलु द्वीपे द्वादश चन्द्राः प्राभासयन् वा प्रभासयन्ति वा प्रभासयिष्यन्ति वा, द्वादश सूर्याः अतापयन् वा तपन्ति वा तापयिष्यन्ति वा, त्रीणि षट् त्रिंशानि नक्षत्रशतानि શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨ ८९२
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy