SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञतिप्रकाशिका टीका सु० ८१ त्रयोदश प्राभृतम् ६७७ षट् अर्द्ध मण्डलानि त्रयोदश च सप्तषष्टिभागाः - अर्द्ध मण्डलस्य यानि उत्तरस्मात् भागात् प्रविशन चारं चरति, कतराणि खलु तानि षट् अर्द्धमण्डलानि त्रयोदश च सप्तषष्टिभागान् अर्द्धमण्डल - स्य यानि चन्द्रः उत्तरस्मात् भागात् प्रविश्य चारं चरति, इमानि खलु तानि पड् अर्द्धमण्डलानि त्रयोदश च सप्तषष्टिभागाः अर्द्ध मण्डलस्य, यानि चन्द्रः उत्तरस्मात् भागात् प्रविशन् चारं चरति । तद्यथा - तृतीये अर्द्धमण्डले पञ्चमे अर्द्धमण्डले सप्तमे अद्धमण्डले नवमे अर्द्धमण्डले एकादशे अर्द्धमण्डले त्रयोदशे अर्द्धमण्डले पञ्चदश मण्डलस्य त्रयोदश सप्तषष्टिभागाः एतानि खलु तानि पडार्द्ध मण्डलानि त्रयोदश च सप्तषष्टिभागाः अर्द्धमण्डलस्य यानि खलु चन्द्रः उत्तरस्मात् भागात् प्रविशन् चारं चरति, एतावन्तश्च प्रथमे चान्द्रायणे समाप्ताः भवन्ति । तावत् नाक्षत्रे अर्द्धमासे न चन्द्र अर्द्धमासे न चन्द्रः अर्द्धमासे नाक्षत्रे अर्द्धमासे, तावत् नक्षत्रार्द्धमासात् स चन्द्रः चान्द्रेण अर्द्धनासेन कियदधिकं चरति । एकमर्द्धमण्डलं चरति, चत्वारश्च सप्तषष्टिभागाः अर्द्ध मण्डलस्य सप्तषष्टिभागं च एकत्रिंशतधा - छित्वा नवभागाः, तावत् द्वितीयायनगत वन्द्रः पौरस्त्याद् भागात् निष्क्रममाणः स चतु पञ्चाशतानि यानि चन्द्रः परस्य चीर्णानि परिचरति, सप्तत्रयोदशकानि यानि चन्द्रः आत्मना चीर्णानि चरति तावत् द्वितीयायन गतश्चन्द्रः पाश्चात्याद् भागात् निष्क्रममाणः चतुः पञ्चाशतानि यानि चन्द्रः परस्य चीर्णानि परिचरति, षट् त्रयोदशकानि चन्द्रः आत्मना चीर्णानि परिचरति, अपरौ खलु द्वौ त्रयोदशकौ यौ चन्द्रः केनापि असामान्यको स्वयमेव प्रविश्य प्रविश्य चारं चरति ? इमौ खलु त्रयोदशौ यो चन्द्रः केनापि असामान्यकौ स्वयमेव प्रविश्य प्रविश्य चारं चरति, सर्वाभ्यन्तरे चैव मण्डले सर्वबाधे च मण्डले, इमौ खलु तौ द्वौ त्रयोदशकौ यौ चन्द्रः केनापि यावत् चारं चरति, एतावता द्वे चान्द्रायणे समाप्ते भवतः, तावत् नाक्षत्रे मासेन चान्द्रमासे चान्द्रमासेन नाक्षत्रे मासे, तावत् नाक्षत्रोमासः चान्द्रेण मासेन कियदधिकं चरति 2, तावत् द्वे अर्द्धमण्डले चरति, अष्टौ च सप्तषष्टिभागात् मण्डलस्य सप्तषष्टिभागाश्च एकत्रिंशधा छित्वा अष्टादशभागान् तावत् तृतीयायनगतश्चन्द्रः पाश्चात्याद् भागात् प्रविशन् बाह्यानन्तरस्य पाश्चात्यस्य अर्द्धमण्डलस्य एकचत्वारिंशतं सप्तषष्टिभागं यावत् चन्द्रः आत्मना परस्य च चीर्ण परिचरति, शोदश सप्तषष्टिभागं यावत् चन्द्रः परस्य चीर्ण परिचरति, त्रयोदश सप्तषष्टिभागान् चन्द्रः आत्मनः परस्यचीर्ण परिचरति, एतावता च बाह्यानन्तरं पाश्चात्यं अर्द्धमण्डलं समाप्तं भवति, तृतीयायन गतश्चन्द्रः पौरस्त्यात् भागात् प्रविशन् बाह्यस्य तृतीयस्य अर्द्धमण्डलस्य एकचत्वारिंशतं सप्तषष्टिभागं यावत् चन्द्रः आत्मनो परस्य चीर्ण परिचरति, त्रयोदश सप्तषष्टिभागं यावत् चन्द्रः परस्य चीर्ण परिचरति, त्रयोदश सप्तषष्टिभागं यावत् चन्द्रः आत्मनः परस्य च चीर्ण परिचरति, एतावता च बाह्य तृतीयं पौरस्त्यमर्द्ध मण्डलं समाप्तं भवति, तावत् तृतीयायनगतश्चन्द्रः पाश्चात्याद् भागात् प्रविशन् बाह्यस्य चतुर्थस्य पाश्चात्यस्य अर्द्धमण्डलस्य अर्द्धसप्तषष्टिभागं सप्तषष्टिभागं च एकत्रिंशधा छित्वा अष्टादशभागं यावत् चन्द्रः आत्मनः परस्य च चीर्ण परिचरति, एतावता बाह्यं चतुर्थ पाश्चात्यमर्द्धमण्डलं समाप्तं શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy