SearchBrowseAboutContactDonate
Page Preview
Page 1083
Loading...
Download File
Download File
Page Text
________________ १०७२ सूर्यप्रज्ञप्तिसूत्रे वृत्तयः । एवं सूर्यस्यापि नेतव्यम् । तावत् चन्द्रसूर्या ज्योतिषेन्द्रा ज्योतिपराजाः कीदृशान् कामभोगान् प्रत्यनुभवन्तो विहरन्ति । तावत् स यथानामकः कश्चित् पुरुषः प्रथमयौवनोत्थानबलसमर्थः प्रथमयौवनोत्थानबलसमर्थया भार्यया सार्द्ध अचिरवृत्तविवाहोऽर्थार्थी अर्थगवेषणया षोडशवर्ष विप्रोपितः स खलु ततो लब्धार्थः कृतकार्यः अनघसमग्रः पुनरपि निजकगृहं शीघ्रमागतः स्नातः कृतबलिकर्मा कृतकौतुकमंगलप्रायश्चितः शुद्धात्मा वेश्यानि (शुद्ध प्रवेश्यानि) मङ्गलानि वस्त्राणि प्रवराणि परिहितः अल्पमहर्घाभरणालङ्कृतशरीरः मनोज्ञं स्थालीपाकशुद्धं अष्टादशव्यञ्जनाकुलं भोजनं भुतः सन् तस्मिन् तादृशे वासगृहे अन्तः सचित्रकर्माणि बाह्यतो धूमितघृष्टमृष्टे विचित्रोल्लोचिततले बहुसमसुविभक्तभूमिभागे मणिरत्नप्रणाशितान्धकारे कालागुरुप्रवरकुन्दरुष्कतुरुष्कधूपमघमघायान्तर्गन्धोद्धृताभिरामे सुगन्धवरगन्धिते गन्धवत्तिभूते तस्मिन तादृशे गृहे शयनीये उभयतः उन्नते मध्येन गम्भीरे सालिङ्गवृत्ते प्रणतगण्ड बिम्बोष्ठे सुरम्मे गंगापुलिनवालुकोदालशालिसदृशे सुविरहरतोत्ताने ओयवियक्षौमदुकूलपट्टपरिच्छादिते रक्तांशुसंवृते सुरम्ये आजिनगरुतोर्णवणिततूलस्पर्शे सुगन्धवरकुसुमचूर्णशयनोपफलिते तया तादृशया भार्यया सार्द्ध श्रृंगाराकारचारुवेषया संगतहसितभणितचेष्टितसं लापविलासयुक्ततया रतिकुशलया अनुरक्तविरक्ततया मनोऽनुकूलतया एकान्तरितप्रशक्ते, अन्यत्र कुत्रापि मनः अकुर्वन् इष्टे शब्दस्पर्शरसरूपगन्धान् पञ्चविधान् मनुषान् कामभोगान् प्रत्यनुभवन् विहरेत् ॥ तावत् स खलु पुरुषोऽपि समयकालसमये सातसौख्यं प्रत्यनुभवन् विहरति !, उदार ! श्रमण ! आयुष्मन् ! तावत् तस्य खलु पुरुषस्य कामभोगेभ्यः इतोऽनन्तगुणविशिष्टतराश्चैव व्यन्तराणां देवानां कामभोगाः, व्यन्तराणां देवानां कामभोगेभ्यः अनन्तगुणविशिष्टतराश्चैव असुरेन्द्रवर्याणां देवानां भवनवासिनां ईन्द्रभूतानां देवानां कामभोगाः, असुरकुमाराणां देवानां कामभोगेभ्यो ग्रहनक्षत्रतारारूपाणां कामभोगाः, ग्रहनक्षत्रतारारूपाणां कामभोगेभ्यः अनन्नगुणविशिष्टतराश्चैव चन्द्रसूर्याणां देवानां कामभोगाः, एतादृशान खलु चन्द्रसूर्याः, ज्योतिषेन्द्राः ज्योतिषराजाः कामभोगान् प्रत्यनुभवन्तो विहरन्ति ।।सू० १०७॥ टीका-अथ चन्द्रदेवस्याग्रमहिषी विषयको गौतमस्य प्रश्न:-'ता चंदस्स णं जोइसिंदस्स जोइसरण्णो कइ अग्गमहिसीओ पण्णत्ताओ' तावत् चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्य कति अग्रमहिष्यः प्रज्ञप्ताः ॥ तावदिति पूर्ववत् चन्द्रदेवस्य-देवभूतस्य चन्द्रस्य कति अग्र___ अब चंद्र देव की अग्रमहिषी के विषयमें श्रीगौतमस्वामी प्रश्न करते हैं(ता चंदस्स णं जोइसिंदस्स जोइसरण्णो कइ अग्गमहिसोओ पण्णत्ताओ) ज्योतिषेन्द्र ज्योतिष्कराज देवरूप चंद्र की अग्रमहिषी अर्थात् पट्टराणियां હવે ચંદ્રદેવની અગ્રમહિષી અર્થાત્ પટ્ટરાણીના સંબંધમાં શ્રીગૌતમસ્વામી પ્રશ્ન ४२ छे.-(ता दस्स ण जोइसि दस्स जोइसरण्णो कइ अग्गमहिसीओ पण्णत्तोओ) ज्योतिन्द्र તિષ્કરાજ દેવરૂપ ચંદ્રની અગ્રમહિષી અર્થાત્ પદ્ધરાણી કેટલી કહેલ છે? એ પટ્ટરાણિના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy