SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ - - - - - - सूर्यप्रज्ञप्तिसत्रे रात्रान् नयति, आर्द्रा सप्त अहोरात्रान् नयति पुनर्वसू, अष्टौ अहोरात्रान् नयति, पुष्यः एकमहोरात्रं नयति तस्मिंश्च खलु मासे चतुर्विंशत्यङ्गुलपौरुष्या छायया सूर्य अनुपरिवर्तते, तस्य खलु मासस्य चरमे दिवसे रेखास्थानि चत्वारि पदानि पौरुषी भवति । तावत् हेमन्तानां तृतीयं मासं कति नक्षत्राणि नयन्ति ?, तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा पुष्यः आश्लेषा मघा, पुष्यः चतुर्दश अहोरात्रान् नयति, आश्लेषा पञ्चदश अहोरात्रान् नयति, मघा एकमहोरात्रं नयति, तस्मिंश्च खलु मासे विंशत्यगुलपौरुष्या छायया सूर्यः अनुपरिवर्तते, तस्य खलु मासस्य चरमे दिवसे त्रीणि पदानि अष्टौ अङ्गुलानि पौरुपी भवति । तावत् हेमन्तानां चतुर्थ मासं कति नक्षत्राणि नयन्ति ?, तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा मघा पूर्वाफाल्गुनी उत्तराफाल्गुनी, मघा चतुर्दश अहोरात्रान् नयति, पूर्वाफाल्गुनी पश्चदश अहोरात्रान् नयति, उत्तराफाल्गुनी एकमहोरात्रं नयति, तस्मिंश्च खलु मासे पोडश अङ्गुलपौरुष्या छायया सूर्य अनुपरिवर्तते, तस्य खलु मासस्य चरमे दिवसे त्रीणि पदानि चत्वारि अंगुलानि पौरुषी भवति । तावत् ग्रीष्माणां प्रथमं मासं कति नक्षत्राणिं नयन्ति ?, तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा-उत्तराफाल्गुनी हस्तश्चित्रा, उत्तराफाल्गुनी चतुदश अहोरात्रान् नयति, हस्तः पञ्चदश अहोरात्रान् नयति, चित्रा एकमहोरात्रं नयति, तस्मिंश्च खलु मासे द्वादशाङ्गुलपौरुष्या छायया सूर्य अनुपरिवत्तेते, तस्य खलु मासस्य चरमे दिवसे रेखास्थानि च त्रीणि पदानि पौरुषी भवति । तावत् ग्रीष्माणां द्वितीयं मासं कति नक्षत्राणि नयन्ति ! तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा-चित्रा स्वाती विशाखा, चित्रा चतुर्दश अहोरात्रान् नयति, स्वाती पञ्चदश अहोरात्रान् नयति, विशाखा एकमहोरात्रं नयति, तस्मिश्च खलु मासे अष्टाङ्गुलपौरुष्या छायया सूर्य अनुपरिवर्तते, तस्य खलु मासस्य चरमे दिवसे द्वे पादे अष्टौ अगुलानि पौरुषी भवति । तावत् ग्रीष्माणां तृतीयं मासं कति नक्षत्राणि नयन्ति ? तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा विशाखा अनुराधा ज्येष्ठामूलः विशाखा चतुर्दश अहोरात्रान् नयति, अनुराधा पञ्चदश अहोरात्रान् नयति, ज्येष्ठामूलमेकमहोरात्रं नयति, तस्मिंश्च खलु मासे चतुरंगुला पौरुष्या छायया सूर्यः अनुपरिवर्तते, तस्य खलु मासस्य चरमे दिवसे द्वे पदे च चत्वारि अंगुलानि पौरुषी भवति । तावत् ग्रीष्माणां चतुर्थं मासं कति नक्षत्राणि नयन्ति ? तावत् त्रीणि नक्षत्राणि नयन्ति तद्यथा-मूलं पूर्वापाढा उत्तराषाढा, मूलं चतुर्दश अहोरात्रान् नयति, पूर्वापाढा पञ्चदश अहोरात्रान् नयति, उत्तरापाटा एकमहोरात्रं नयति, तस्मिंश्च खलु मासे वृत्तया समचतुरस्रसंस्थितया न्यग्रोधपरिमंडलया सकायमनुरञ्जिन्या छायया सूर्य अनुपरिवर्त्तते तस्य खलु मासस्य चरमे दिवसे रेखास्थानि द्वे पादे पौरुषी भवति ॥ सू० ४३ ॥ ॥ दशमस्य प्राभृतस्य दशमं प्राभृतप्राभृतं समाप्तम् ॥ ___टीका-'योगे किंते वस्तु आख्यात' मित्याख्य संप्रवृत्तस्य दशमस्य प्राभृतस्य नवम प्राभृतप्राभृते प्रतिनक्षत्रताराप्रमाणं विविच्य सम्प्रति दशमेऽस्मिन् प्राभृतप्राभृतेऽर्थाधि શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy