SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ ८०८ सूर्यप्रज्ञप्तिसूत्रे युञ्जन् अभिजिन्नक्षत्रं युनक्ति, श्राविष्ठी पौर्णमासी कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्ति, कुलेन उपकुलेन वा कुलोपकुलेन वा युक्ता श्राविष्ठी पौर्णमासी युक्तेति वक्तव्या शिष्येभ्यः । तावत् प्रौष्ठपदी पूर्णिमां किं कुलं युनक्ति उपकुलं युनक्ति कुलोपकुलं वा युनक्ति तावत् कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्ति । कुलं युञ्जन् उत्तराप्रौष्ठपदा नक्षत्रं युनक्ति उपकुलं युञ्जन् पूर्वाभाद्रपदा नक्षत्रं युनक्ति कुलोपकुलं युञ्जन् शतभिषा नक्षत्रं युनक्ति, प्रौष्ठपदी पौर्णमासी खलु कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्ति, कुलेन युक्ता वा उपकुलेन युक्ता वा कुलोपकुलेन युक्ता वा प्रौष्ठपदी पूर्णिमा युक्तेति वक्तव्या शिष्येभ्यः । तावत् आश्विनी खलु पौर्णमासी किं कुलं युनक्ति उपकुलं युनक्ति कुलोपकुलं युनक्ति न लभते कुलोपकुलं, कुलं युञ्जन् अश्विनीनक्षत्रं युनक्ति, उपकुलं युञ्जन् रेवतीनक्षत्रं युनक्ति, आश्विनी खलु पूर्णिमां च कुलं वा युनक्ति उपकुलं वा युनक्ति, कुलेन वा युक्ता उपकुलेन वा युक्ता आश्विनी खलु पूर्णिमा युक्तेति वक्तव्या शिष्येभ्यः । एवं नेतव्यं, पौषी पूर्णिमां ज्येष्ठामूली पूर्णिमां च कुलोपकुलमपि युनक्ति । अवशेषासु नास्ति कुलोपकुलं, तावत् श्राविष्ठी खलु अमावास्यां कति नक्षत्राणि युञ्जन्ति द्वे नक्षत्रे युक्तः तद्यथा आश्लेषा च नघा च, एतेन अभिलापेन नेतव्यं प्रौष्ठपदी द्वे नक्षत्रे युङ्क्तः तद्यथा पूर्वाफाल्गुनी उत्तराफाल्गुनी आश्विनी हस्तश्चित्रा च कार्तिकी स्वाती विशाखा च मार्गशीर्षीम् अनुराधा ज्येष्ठामूलं च, पौषी पूर्वाषाढा माघीम् अभिजित् श्रवणा धनिष्ठा फाल्गुनी शतभिषा पूर्वापौष्ठपदा उत्तराप्रौष्ठपदा चैत्री रेवती अश्विनी वैशाखी भरणी कृत्तिका च ज्येष्ठामूली रोहिणीमृगशिरा च तावत् आषाढी खलु अमावास्यां कति नक्षत्राणि युञ्जन्ति । तावत् त्रीणि नक्षत्राणि युञ्जन्ति तद्यथा आर्द्रा पुनर्वसू पुष्यं तावत् श्राविष्ठी खलु अमावास्यां किं कुलं युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्ति । कुलं वा युक्ता उपकुलं वा युक्ता न लभते कुलोपकुलं, कुलं युञ्जन् मघानक्षत्रं युनक्ति, उपकुलं वा युक्ता आश्लेषा युनक्ति, कुलेन वा युक्ता उपकुलेन वा युक्ता श्राविष्ठी अमावास्या युक्तेति वक्तव्या शिष्येभ्यः । एवं नेतव्यं नवरं मार्गी माघी आषाढी च अमावास्या कुलोपकुलमपि युनक्ति शेषेषु नास्ति ॥ सू० ३९॥ ॥ दशमस्य प्राभृतस्य षष्ठं प्राभृतप्राभृतं समाप्तम् ॥ टीका-प्रचाल्यमानस्य दशमस्य प्राभृतस्य (योगे किं ते वस्तु आख्याता) इत्याख्यातस्य पश्चमप्राभृतप्राभृते कुलोपकुलादीनां संज्ञाविषयकं विचारं विविच्य षष्ठे प्राभृतप्राभृते अंश टीकार्थ-प्रचलित दसवें प्राभृत का (योगे किं ते वस्तु आख्याता) इस विषय विषयक पांचवें प्राभृतप्राभृत में कुलोपकुल आदिकों का संज्ञा विषयक साय- 240 या इसमा प्राकृतनi (योगे किं ते वस्तु आख्याता) मा विषय सधी પાંચમા પ્રાભૃતપ્રાભૃતમાં કુપકુલ વિગેરે નક્ષત્રની સંજ્ઞાના સંબંધમાં પ્રતિપાદન શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy