________________
७०५
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३६ दशमप्राभृतस्य चतुर्थं प्राभृतप्राभृतम् तत् प्रथमतया सायं चन्द्रेण सार्द्ध योगं युनक्ति नो लभते अपरं दिवसम् , एवं खलु शतभिषा नक्षत्रमेकां च रात्रिं चन्द्रेण सार्द्ध योगं युनक्ति, योगं युक्त्वा योगमनुपरिवर्तयति, योगमनुपरिवर्त्य ततश्चन्द्रं पूर्वाग्रौष्ठपदयोः समर्पयति । ततः पूर्वाग्रौष्ठपदा नक्षत्रं खलु पूर्वभागं समक्षेत्रं त्रिंशन्मुहूर्त तत् प्रथमतया प्रातश्चन्द्रेण सार्द्ध योगं युनकि, ततः पश्चात् अपरांरात्रिम् , एवं खलु पूर्वाग्रौष्ठपदानक्षत्रम् एकं च दिवसम् एकां च रात्रि चन्द्रेण सार्द्ध योगं युनक्ति योगं युक्त्वा योगमनपरिवर्त्तयति, योगमनपरिवयं प्रातश्चन्द्रमुत्तरयोः प्रौष्ठपदयोः समर्पयति, तावद् उत्तरापौष्ठपदा नक्षत्रं खलु उभयं भागं द्वय क्षेत्रं पश्चचत्वारिंशन्मुहत्तं तत् प्रथमतया प्रातश्चन्द्रेण सार्द्ध योगं युनक्ति, अपरां च रात्रिं ततः पश्चाद् अपरं दिवसम् , एवं खलु उत्तराप्रौष्ठपदा नक्षत्रं द्वौ दिवसौ एकां च रात्रि चन्द्रेण सार्द्ध योगं युनक्ति अपरांच रात्रिं, ततः पश्चात् अपरं दिवसम् , एवं खलु उत्तराप्रौष्ठपदानक्षत्रं द्वौ दिवसौ एकां च रात्रिं चन्द्रेण साद्ध योगं युनक्ति योगं युक्त्वा योगमनुपरिवर्तयति, अनुपरिवर्त्य सायं चन्द्रं रेवत्याः समर्पयति, तावद् रेवती खलु नक्षत्रं पश्चाद्भागं समक्षेत्रं त्रिंशन्मुहूर्त तत् प्रथमतया सायं चन्द्रेण सार्द्ध योगं युनक्ति, ततः पश्चाद् अपरं दिवसम् , एवं खलु रेवती नक्षत्रम् एकां रात्रिमेकं च दिवसं चन्द्रेण सार्द्ध योगं युनक्ति, योगं युक्त्वा योगमनुपरिवर्तयति, योगमनुपरिवर्त्य सायं चन्द्रमश्विन्याः समर्पयति, तावद् अश्विनी खलु नक्षत्रं पश्चिमभागं समक्षेत्रं त्रिंशन्मुहर्त तत्प्रथमतया सायं चन्द्रेण साद्धं योगं युनक्ति, ततः पश्चाद् अपरं दिवसम् , एवं खलु अश्विनी नक्षत्रमेकां च रात्रिम् एकं च दिवसं चन्द्रेण सार्द्ध योगं युनक्ति, योगं युवत्वा योगमनुपरिवर्तयति योगमनुपरिवर्त्य सायं चन्द्रं भरण्याः समर्पयति, तावार भरणी खलु नक्षत्रं नतं भागम् अपा क्षेत्र पञ्चदशमुहूत्तं तत् प्रथमतया साय चन्द्रेण सार्द योगं युनक्ति, न लभते अपरं दिवसम् , एवं खलु भरणी नक्षत्रम् एकां रात्रिं चन्द्रेण सार्द्ध योगं युनक्ति, योगं युक्त्वा योगमनुपरिवर्त्तयति योगमनुपरिवयं प्रातश्चन्द्रं कृतिकायाः समर्पयति, तावत् कृत्तिका खलु नक्षत्रं पूर्वभागं समक्षेत्रं त्रिंशन्मुहूर्त तत् प्रथमतया सायं चन्द्रेण सार्द्ध योगं युनक्ति योगं युक्त्वा योगमनुपरिवर्तयति, योगमनुपरिवर्त्य प्रातश्चन्द्रं रोहिण्याः समर्पयति, रोहिणी यथा उत्तराभाद्रपदा, मृगसिरा यथा धनिष्ठा, आर्द्रा यथा शतभिषा, पुनर्वसू यथा उत्तराभाद्रपदा, पुष्यो यथा धनिष्ठा, अश्लेषा यथा शतभिषा, मघा यथा पूर्वाफाल्गुनी, पूर्वाफाल्गुनी यथा पूर्वा भाद्रपदा, उत्तराफाल्गुनी यथा-उत्तरा भाद्रपदा, हस्तश्चित्रा च यथा-धनिष्ठा, स्वाती यथा शतभिषा, विशाखा यथा उत्तराभाद्रपदा, अनुराधा यथा धनिष्ठा शतभिषा मूलं पूर्वाषाढा च यथा पूर्वाभाद्रपदा उत्तराषाढा यथा उत्तराभाद्रपदा ॥ सू० ३६॥
॥ दशमस्य चतुर्थ प्राभृत प्राभृतम् ॥ टीका-प्रचाल्यमानस्य दशमस्य (योगे किं ते वस्तु आख्यातम्) इत्याख्य प्राभृतस्य तृतीयप्राभृतप्राभृते-(एवं भागानि नक्षत्राणि वक्तव्यानीति) विषयकं नक्षत्राणां पूर्वभागगता
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧