SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १२ प्रथमपाभृते द्वितीयं प्राभृतप्राभृतम् तावत्कथं ते दक्षिणा अर्द्धमण्डसंस्थितिः आख्याता इति वदेत् । तावद् अयं जम्बूद्वीपद्वीपः सर्वेद्वीपसमुद्राणां यावत् परिक्षेपेण, तत्र यदा खलु सूर्यः सर्वाभ्यन्तरां दक्षिणामद्धेमण्डसंस्थितिम् उपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठा प्राप्तः उत्कर्षकोऽष्टादशमुहूत्तों दिवसो भवति जघन्या द्वादशमुहूर्ती रात्रि भवति, स निष्क्रममाणः सूर्यः नवं सम्वत्सरमाददानः प्रथमे अहोरात्रे दक्षिणस्माद् अन्तराद् भागात् तस्यादिप्रदेशस्य अभ्यन्तरा मुत्तरामद्धमण्डलसंस्थितिमुपसंक्रम्य चारं चरति, यदा खलु सूर्यः अभ्यन्तरानन्तरामुत्तराम मण्डलसंस्थितिम् उपसंक्रम्य चारं चरति, तदा खलु अष्टादशहत्तों दिवसो भवति द्वाभ्यामेकषष्टिभागमुहूत्ताभ्यामूनो भवति, द्वादशमुहूर्ता रात्रिः द्वाभ्यामेकषष्टिभागमुहर्ताभ्यामधिका, स निष्क्रामन् सूर्यः द्वितीये अहोरात्रे उत्तरस्मादन्तराद भागात तस्यादि प्रदेशस्य अभ्यन्तरां तृतीयां दक्षिणा मद्धमण्डलसंस्थिति मुपसंक्रम्य चार चरति । ततो यदा खलु सूर्यः अभ्यन्तरां तृतीयां दक्षिणामर्द्धमण्डलसंस्थिति मुपसंक्रम्य चारं चरति, तदा खलु अष्टादशमुहूत्तों दिवसो भवति चतुर्मिरेकषप्टिभागमुहर्ने रूनः, द्वादशमुहर्ता रात्रिभवति चतुभिरेकषष्टिभागमुहूरधिका, एवं खलु एतेनोपायेन निष्क्रामन् सूर्यः तदनन्तरां तदनन्तरं तस्मिन् तस्मिन् देशे तांताम् अर्द्धमण्डलसंस्थितिं संक्रामन् संक्रामन् दक्षिणस्माद दक्षिणस्माद् अन्तराद् भागात् तस्यादिप्रदेशस्य, सर्वबाह्यामुत्तरामर्द्धमण्डलसंस्थिति मुपसंक्रम्य चारं चरति, ततो यदा खलु सूर्यः सर्वबाह्यामुत्तरार्द्धमण्डलसंस्थिति मुपसंक्रम्य चारं चरति, तदा खलु उत्तमकाष्ठां प्राप्ता उत्कर्षिका अष्टादशमुहूर्ती रात्रिर्भवति, जघन्यो द्वादशमुहूत्तौ दिवसो भवति । एष खलु प्रथमे षण्मासे, एप खलु प्रथमस्य षण्मासस्य पर्यवसानः । स प्रविशन् सूर्यः द्वितीयं षण्मासमाददानः प्रथमे अहोरात्रे उत्तरस्मादन्तरद्भागात् तस्यादिप्रदेशस्य बाह्यानन्तरां दक्षिणामर्द्धमण्डलसंस्थिति पसंक्रम्य चारं चरति, ततो यदा खलु सूर्यः बाह्यादनन्तरां दक्षिणामर्द्धमण्डलसंस्थिति मुपसंक्रम्य चारं चरति तदा खलु अष्टादशमुहूर्ता रात्रि भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामूना, द्वादशमुहूत्तौ दिवसो भवति द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्यामधिकः, स प्रविशन् सूर्यः द्वितीये अहोरात्रे दक्षिणस्माद् अन्तराद्भागात् तस्यादिप्रदेशात् बाह्यान्तरां तृतीया मुत्तरा मर्द्धमण्डलसंस्थितिम् उपसंक्रम्य चारं चरति, ततो यदा खलु सूर्यः बाह्यां तृतीया मुत्तरा मर्द्धमण्डलसंस्थिति मुपसंक्रम्य चारं चरति, तदा खलु अष्टादशमुहर्ता रात्रिभवति चतुभिरेकपष्टिभागमुह तैरधिका, एवं खलु एतेनोपायेन प्रविशन् सूर्यः तदनन्तरात्तदनन्तरं तस्मिन् तस्मिन् प्रदेशे तां ता मर्द्धमण्डलसंस्थितिं संक्रामन् संक्रामन् उत्तरस्माद् अन्तराद् दिगविभागात् तस्यादिप्रदेशस्य सर्वाभ्यन्तरां दक्षिणा मर्द्धमण्डलसंस्थितिमुपसंक्रम्य चारं चरति, तत्र यदा खलु सूर्यः साभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थिति मुपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहूत्ततॊ दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रि भवति, एष खलु द्वितीयः षण्मासः, एष खलु द्वितीयस्य षण्मासस्य पर्यवसानः, एष खलु आदित्यसम्बत्सरः, एष खलु आदित्यसम्वत्सरस्य पर्यवसानः ॥ सू० १२ ॥ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy