SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४० सूर्यप्रशप्तिसूत्रे चरति । तावद् यदा खलु सूर्यः सर्वाभ्यन्तरान्मण्डलात सर्बबाह्य मण्डल मुपसंक्रम्य चारं चरति, ततः खलु सर्वाभ्यन्तरं मण्डलं प्रणिधाय एकेन ज्यशीतेन रात्रिन्दिवशतेन त्रीणि षट्पष्टानि मुहूर्तेकपष्टिभागशतानि दिवसक्षेत्रस्य निर्वेष्टय रजनिक्षेत्रस्य अभिवद्धर्थ चार चरति, तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्पिका अष्टादशमुहूर्ता रात्रि भवति, जघन्यश्च द्वादशमुहत्तौ दिवसो भवति एव खलु प्रथमः पण्मासः, एतत् प्रथमस्य षण्मासस्य पर्यवसानम् । स प्रविशन् सूर्यः द्वितीयं षण्मासण आददानः प्रथमे अहोरात्रे बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति, तत्र यदा खल सूर्यः बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु अष्टादशमुहूत्ती रात्रि भवति द्वाभ्यामेकपष्टिभागाहर्ताभ्या मूना । स प्रविशन् सूर्यः द्वितीये अहोरात्रे बाह्य तृतीयं भण्डलमुपसंक्रम्य चारं चरति, ततो यदा खलु सूर्य बाह्य तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु अष्टादशमुहूर्ती रात्रि भवति चतुभिर्मुहरेकषष्टिभागैरूना, द्वादशमुहतों दिवसो भवति चतुभिर्मुहरेकपप्टिभागैरधिकः । एवं खलु एतेनोपायेन प्रविशन् सूर्यः तस्मादनन्तरात् तद् अनन्तरं मण्डलान्मण्डलं संक्रममाणः द्वौ द्वौ एकपष्टिभागमुहत्तौ एकैकस्मिन् मण्डले रजनिक्षेत्रस्य निर्वर्द्धयन् निर्बद्धयन्, दिवसक्षेत्रस्य अभिवर्द्धयन् अभिवर्द्धयन् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति । ततो यदा खल सूर्यः सर्वबाह्यान्मण्डलात् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु सर्वबाह्य मण्डलं प्रणिधाय एकेन न्यशीत्यधिकेन रात्रिदिवशतेन त्रीणि षट्पष्टानि एकषष्टिभागमुहूर्त्तशतानि रजनिक्षेत्रस्य निर्वेष्टय दिवसक्षेत्रस्य अभिवद्धर्य चारं चरति तदा खलु उत्तभकाष्ठाप्राप्तः उत्कर्षकोऽष्टादशमुहत्तों दिवसो भवति, जघन्या द्वादशमुहर्ता रात्रि भवति । एतत् खलु द्वितीयं षण्मासम्, एतत् खलु द्वितीयस्य पण्मासस्य पर्यवसानम् । एष खलु आदित्यसम्बत्सरः, एष खलु आदित्यस्य सम्बत्सरस्य पर्यवसानः, इति खलु तस्यैव आदित्यस्य संवत्सरस्थ सकृद् अष्टादशमुहूतौ दिवसो भवति, सकृद् अष्टादशमुहूत्ती रात्रि भवति, सकृद् द्वादशमुहनों दिवसो भवति, सकृद् हादशमुहर्ता रात्रि भवति । प्रथमे पण्मासे अस्ति अष्टादशमुहर्ता रात्रिः, नास्ति अष्टादशमुहतो दिवसो भवति, अस्ति द्वादशमुहत्तों दिवसः, नास्ति द्वादशमुहूत्ती रात्रिः, द्वितीये षण्मासे अस्ति अष्टादशमुहत्तौ दिवसो, नास्ति अष्टादशमुहर्ता रात्रिः, अस्ति द्वादश मुहर्ता रात्रिः, नास्ति द्वादशमुहत्तों दिवसो भवति, प्रथमे पण्मासे द्वितीये वा षण्मासे नास्ति पञ्चदशमुहत्तों दिवसो भवति, नास्ति पञ्चदशमुहूर्ता रात्रि भवति, नान्यत्र राशिन्दिवानां वृद्धयपवृद्धी, मुहूर्तानां वा चयोपचयेन, नान्यत्र वा अनुपातगतेः, गाथा, मणितव्याः ॥ सू० ११॥ ॥ प्रथमस्य प्राभृतस्य प्रथमं प्राभृतप्राभृतम् ॥ १-१॥ टीका-भूयः प्रश्नयति-'जइ खलु तस्सेव आदिञ्चस्स' इत्यादि यदि खलु तस्यैवादित्यस्य सम्वत्सरस्येति षट्पष्टयधिकरात्रिन्दिवशतत्रय ३६६ परिमाणायामदायां हय શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy