SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ५०२ सूर्यप्रज्ञसूतिसूत्रे अन्यदपैति, एके एवमाहुः १ । एके पुनरेवमाहु स्तावद् अनुमुहूर्तमेव सूर्यस्य ओजः अन्यदुपपद्यते अन्यदपैति २, एतेन अभिलापेन नेतव्यम् । तावदनुरात्रिन्दिवमेव ३, तावदनुपक्षमेव ४, तावदनुमासमेव ५, अनुऋतुमेव ६, अनुअयनमेव ७, अनुसम्वत्सरमेव ८ । अनुगमे ९ | अनुवमेव १०, अनुवर्षशतमेव ११, अनुवर्षसहस्रमेव १२, अनुवर्षशतसहस्रमेव १३, अनुपूर्वमेव १४, | अनुपूर्वशतमेव १५ । अनुपूर्वसहस्रमेव १६ । अनुपूर्वशतसहस्रमेव १७ । अनुपल्योपममेव १८ । अनुपल्योपमशतमेव १९ । अनुपल्योपमसहस्रमेव २० । अनुपल्योपमशतसहस्रमेव २१ । अनुसागरोपममेव २२ | अनुसागरोपमशतमेव २२ । अनुसागरोपमसहस्रमेव २३ | अनुसागरोपमशतसहस्रमेव २४ । एके एवमाहुः || अनूत्सर्पिण्यवसर्पिण्येव सूर्यस्य ओजः अन्यदुपपद्यते अन्यदपैति एके एवमाहुः २५ ॥ वयं पुनरेवं वदामः, तावत् त्रिंशतं त्रिंशतं मुहूर्त्तान् सूर्यस्य ओजः अवस्थितं भवति । तेन परं सूर्यस्य ओजः अनवस्थितं भवति, षण्मासान् सूर्यः ओजो निर्वर्तयति, षण्मासान सूर्यः ओजः अभिवर्द्धयति, निष्क्रामन् सूर्यो देश निर्वर्द्धयति, प्रविशन् सूर्यः देशमभिवर्द्धयति, तत्र को हेतु रितिवदेत् । तावदयं जम्बूद्वीपो द्वीप द्वीपः सर्वद्वीपसमुद्राणां यावत् परिक्षेपेण खलु यावत् यदा खल सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु उत्तम - प्राप्तः उत्कर्षकोऽष्टादशमुहूर्त्ती दिवसो भवति, जघन्या द्वादशमुहूर्त्ता रात्रि र्भवति, स निष्क्रामन् सूर्यः नवं सम्बत्सरमयन् प्रथमेऽहोरात्रे अभ्यन्तरानन्तरमण्डलमुपसंक्रम्य चारं चरति तदा खलु एकेन रात्रिंदिवेन एकं भागम् ओजसः दिवसक्षेत्रस्य निर्वर्द्धयित्वा रजनिक्षेत्रस्याभिवर्द्धयित्वा चारं चरति, मण्डलमष्टादशभिस्त्रिंशच्छतै श्छित्वा तदा खल अष्टादशमुहर्त्ती दिवसो भवति द्वाभ्यामेकपष्ठिभागमुहर्त्ताभ्यामूनः द्वादशमुहर्त्ता रात्रि र्भवति, द्वाभ्यामेकपष्टिभागमुहूर्त्ताभ्यामधिका, स निष्क्रामन् सूर्यो द्वितीयेऽहोरात्रे अभ्यन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति, तावद् यदा खलु सूर्यः अभ्यन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु द्वाभ्यां रात्रिं दिवाभ्यां द्वौ भागौ ओजसा दिवसक्षेत्रस्य निर्वद्धरजनिक्षेत्रस्य अभि चारं चरति, मण्डलमष्टादशभिस्त्रिंशद्भिः शर्तें रिछत्वा तदा खल अष्टादशमुहूर्त्ती दिवसो भवति चतुर्भिरेकषष्टिभागमुहूर्तेरूनः, द्वादशमुहूर्त्ता रात्रि भवति चतुर्भिरेकषष्टिभागमुहूर्त्तेरधिका । एवं खलु एतेनोपायेन निष्क्रामन् सूर्यस्तदनन्तरात्तदनन्तरं मण्डलान्मण्डलं संक्रामन् संक्रामन् एकैकस्मिन् मण्डले एकैकेन रात्रिन्दिवेन एकैकमेकैकं भागम् ओजसो दिवसक्षेत्रस्य निर्वर्द्धयन् निर्वद्धयन् रजनिक्षेत्रस्याभिवर्द्धयन् अभिवर्द्धयन् सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति, तावद् यदा सूर्यः सर्वाभ्यन्तरान्मण्डलात् सर्वबा मण्डलमुपसंक्रम्य चारं चरति तदा खलु सर्वाभ्यन्तरं मण्डलं प्रणिधाय एकेन त्र्यशीतेन रात्रिंदिवशतेन एकं त्र्यशीतं भागशतम् ओजसा दिवसक्षेत्रस्य निर्वद्धये रजनिक्षेत्रस्य अभिवर्द्धार्थ चारं चरति, मण्डलम् अष्टादशभि त्रिंशद्भिः शतैश्छित्वा तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहर्त्ता रात्रिर्भवति, जघन्यो द्वादशमुहूर्त्ती दिवसो भवति, एष खलु શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧ ,
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy