________________
सूर्यप्रज्ञप्तिसूत्रे च बाहा, तस्याः खलु सर्वाभ्यन्तरा बाहा मन्दरपर्वतान्ते षड़योजनसहस्राणि त्रीणि च चतुविंशतानि योजनशतानि षट् च दशभागान् योजनस्य परिक्षेपेण आख्याता इति वदेत, तावत् स खलु पविक्षेपविशेषः कुत आख्यात इति वदेत्, तावत् यः खलु मन्दरस्य पर्वतस्य परिक्षेप स्तं परिक्षेपं द्वाभ्यां गुणयित्वा शेषं तदेव, तस्याः खलु सर्वबाह्या बाहा लवणसमुद्रान्ते त्रिषष्टिर्योजनसहस्राणि द्वे च पञ्चचत्वारिंशे योजनशते पट् च दशभागान् योजनस्य ६३२४५, ६०, परिक्षेपेण आख्यात इतिवदेत् । तावत् स खलु परिक्षेपविशेषः कुत आख्यात इति वदेत्, तावद् यः खलु जम्बूद्वीपस्य द्वीपस्य परिक्षेप स्तं परिक्षेपं द्वाभ्यां गुणयित्वा दशभिश्छित्वा दशभिर्भागे हियमाणे एष खलु परिक्षेप विशेषः आख्यात इति वदेत, तावत् स खलु अन्धकारः कियता आयामेन आख्यात इति वदेत, तावत् अष्टसप्तति योजनसहस्राणि त्रीणि च त्रयस्त्रिंशतानि योजनशतानि योजनविभागं च आयामेन आख्यात इति वदेत् ।। तदा खलु उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्तो दिवसो भवति, जघन्या द्वादशमुहूर्त्ता रात्रि भवति, तावद् यदा खलु सूर्यः सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति तदा खलु किं संस्थिता तापक्षेत्रसंस्थिति राख्याता इति वदेव, तावद् ऊर्ध्वमुखकलम्बुका पुष्पसंस्थिता तापक्षेत्रसंस्थिति राख्याता इति वदेत्, एवं यदभ्यन्तरे मण्डले अन्धकारसंस्थितेः प्रमाणं तबाह्यमण्डले तापक्षेत्रसंस्थितेः यत् तत्र तापक्षेत्रसंस्थिते स्तद् बाह्यमण्डले अन्धकारसंस्थितेः भणितव्यम्, । यावत् तदा खलु उत्तमकाष्ठाप्राप्ता उत्कषिका अष्टादशमुहूर्ता रात्रि भवति, जघन्यो द्वादशमुहत्तों दिवसो भवति, तावत् जम्बूद्वीपे द्वीपद्वीपे सूयौं कियत् क्षेत्रम् ऊर्ध्व तापयतः, कियत् क्षेत्रं तिर्यकूतापयतः, तावत् जम्बूद्वीपे खलु द्वीपे सूर्यों एक योजनशतमर्ध्व तापयतः, अष्टादशयोजनशतानि अधस्तापयतः, सप्तचत्वारिंशद् योजनसहस्राणि द्वे च त्रिषष्टे योजनशते ४७२६३. एकविंशतिं च षष्टिभागान् योजनस्य तिर्यकतापयतः॥सू.२५॥
॥ चतुर्थ प्राभृतं समाप्तम् ॥ तृतीयं प्राभृतं सम्यगअभिधाय सम्प्रति-चतुर्थ प्राभृतं प्रारभ्यते-'सेयाते किं ते' इत्यादि, टीका-'सेयाते किं ते संठिई' श्वेततायाः किंते संस्थिति रित्येतद्विषये प्रश्नसूत्रं
चौथा प्राभृत का प्रारंभ तीसरा प्राभृत सम्यक् प्रकार से व्याख्यात करके अब चौथा प्राभृत प्रारम्भ किया जाता है-(सेया ते किं ते) इत्यादि ।
टीकार्थ-(सेया ते कि ते संठिई) श्वेतता कि संस्थिति आपके मत से किस प्रकार से होती है इस विषय के संबंध में श्री गौतमस्वामी प्रश्न सूत्र कहते
यथा प्रामृतना प्रारंभત્રીજી પ્રાભૂતને સારી રીતે કહીને હવે આ ચેથા પ્રાભૂતને પ્રારંભ કરવામાં આવે छ, (सेया ते किं ते) :त्यादि.
As :-(सेया ते किं ते संठिई) श्वेततानी स्थिति तमा। भतथा ! प्रानी
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧