________________
%3
सूर्यशप्तिप्रकाशिका टीका सू० २५ चतुर्थ प्राभृतम् संस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता, एके एवमाहुः १४, एके पुनरेवमाहुः-तावद् हर्म्यतलसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता, एके एवमाहुः १५, एके पुनरेवमाहुः-तावद् वालाग्रपोतिका संस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता, एके एवमाहुः १६ ॥ तत्र ये ते एवमाहुः-तावत् समचतुरस्रसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता, एतेन नयेन नेतव्यम्, न चैव खलु इतरैः, तावत् कथं ते तापक्षेत्रसंस्थितिराख्याता इति वदेत, तत्र खलु इमाः षोडशप्रतिपत्तयः प्रज्ञप्ताः, तत्र खलु एके एवमाहुः-तावद् गेहसंस्थिता तापक्षेत्रसंस्थितिः प्रज्ञप्ता, एवं यावद् बालाग्रपोतिका संस्थिता तापक्षेत्रसंस्थितिः प्रज्ञप्ता, एके एवमाहुः १, एके पुनरेवमाहुः-तावद् यत् संस्थितो जम्बूद्वीपो द्वीप स्तत्संस्थिता तापक्षेत्रसंस्थितिः प्रज्ञप्ता, एके एवमाहुः ९, एकेपुनरेवमाहुः-तावद् यत्संस्थितं भारतं वर्ष तत्संस्थिता तापक्षेत्रसंस्थितिः प्रज्ञप्ता १०, एवम् उद्यानसंस्थिता निर्याणसंस्थिता, एकतो निषधसंस्थिता, उभयतो निषधसंस्थिता, श्येनक पृष्ठसंस्थिता एके एवमाहुः, १५, एके पुनरेवमाहुः-तावत् श्येनकपृष्ठसंस्थिता तापक्षेत्रसंस्थितिः प्रज्ञप्ता एके एवमाहुः-१६, वयं पुनरेवं वदामः, ऊर्ध्वमुखकलम्बुकपुष्पसंस्थिता तापक्षेत्रसंस्थितिः प्रज्ञप्ता, अन्तः-संकुचिता बहिविस्तृता, अन्तर्वृत्ता बहिः पृथिला, अन्तः अङ्कमुखसंस्थिता, बहिः स्वस्तिकमुखसंस्थिता, उभयतः पाश्वतः तस्या द्वे बाहे अवस्थिते भवतः, पश्चचत्वारिंशत् पश्चचत्वारिंशद् योजनसहस्राणि आयामेन तस्याः द्वे बाहे अनवस्थिते भवतः । तद्यथा-सर्वान्तरा सर्वबाह्या चेति द्वे बाहे, तत्र को हेतु रिति वदेत् । तावदयं जम्बूद्वीपो द्वीपद्वीपो यावत् परिक्षेपेण, तावद्' यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु ऊर्ध्वमुखकलम्बुकपुष्पसंस्थिता तापक्षेत्रसंस्थितिः आख्याता इति वदेत् । अंतः संकुचिता बहिर्विस्तृता अन्तर्वृत्ता बहिः पृथिला, अन्तः अङ्कमुखसंस्थिता, बहिः स्वस्तिकमुखसंस्थिता उभयतः पाइँन, तस्यास्तथैव यावत् सर्वबाह्या चैव बाहा तस्याः खलु सर्वाभ्यन्तरा बाहा मेरुपर्वतान्ते खलु नवयोजनसहस्राणि चत्वारि च पडशीतानि योजशतानि नव च दशभागा योजनस्य, परिक्षेण आख्याता इति वदेत् । तावत् स खलु तापक्षेत्रविशेषः कुत आख्यात इति वदेत् । तावद् यः खलु मन्दरस्य पर्वतस्य परिक्षेपस्तं परिक्षेप त्रिभिर्गुणयित्वा दशभिश्छित्वा दशभिर्भागे हियमाणे एष खलु परिक्षेपविशेषः आख्यात इति वदेत् । तस्याः खलु सर्वबाह्या बाहा लवणसमुद्रान्ते चतुर्नवति योजनसहस्राणि अष्टौ च अष्टषष्टियोजनशतानि चतुरश्च दशभागान् योजनस्य परिक्षेपेण ९४८६८१० आख्याता इति वदेत् ॥ तावत् स खलु परिक्षेपविशेषः कुत आख्यात इति वदेत् ॥ तावद् यः खलु जम्बूद्वीपस्य द्वीपस्य परिक्षेपस्तं परिक्षेपं त्रिभिर्गुणयित्वा दशमिश्छित्वा दशभिर्भागे हीयमाणे एष खलु परिक्षेपविशेष आख्यात इति वदेत् ॥ तावत् तत्खलु तापक्षेत्रं कियद् आयाममाख्यातमिति वदेत् । तावत् अष्टसप्तति यॊजनसहस्राणि-त्रीणि च त्रयस्त्रिंशतानि योजनशतानि योजनत्रिभागं च आयामेन आख्यातमिति वदेत् । तदा खलु किं संस्थिता अन्धकारसंस्थिति राख्यता इति वदेत, तावद् ऊर्ध्वमुखकलम्बूका पुष्पसंस्थिता तथैव यावद् बाह्या
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧