________________
१२२
सूर्यप्रशप्तिसूत्रे भवइ, तहेव एवं सव्वबाहिरए मंडले, णवरं णो किंचिल्लवणसमुदं
ओगाहित्ता चारं चरइ, राइं दियं तहेव एगे एवमाहंसु ॥५० १६॥ ___ छाया-तावत् कियन्तं तत्र द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति आख्यात इति वदेत्, तत्र खलु इमाः पश्चप्रतिपत्तयः प्रज्ञप्ताः, एके एवमाहुः-तत्र एकं योजनसहस्रम् एकं च त्रयस्त्रिंशतं योजनशतं द्वीपं वा समुद्रं वा अवगाह्य सूर्यः चारं चरति, एके एवमाहुः १, एके पुनः एवमाहुः, तत्र एकं योजनसहस्रम्, एकं चतुर्विंशतं योजनशतं द्वीपं वा समुद्र वा अवगाह्य सूर्यश्चारं चरति, एके एवमाहुः २, एके पुनः एवमाहुः तत्र एकं योजनसहस्रम् एकं च पञ्चत्रिंशतं द्वीपं वा समुद्रं वा अवगाह्य सूर्यः चारं चरति, एके एवमाहुः ३, एके पुनः एवमाहुः तावत् अपार्द्ध द्वीपं वा समुद्रं वा अवगाह्य सूर्यः चारं चरति, एके एवमाहुः ४, एके पुनः एवमाहुः-तत्र एक योजनसहस्रम् एकं त्रयस्त्रिंशतं योजनशतं द्वीपं वा समुद्रं वा अवगाह्य सूर्यः चारं चरति ५ । तत्र ये खलु एवमाहुः-ते एक योजनसहस्रम् एकं त्रयस्त्रिंशतं योजनशतं द्वीपं वा समुद्रं वा अवगाह्य सूर्य श्चारं चरति, ते एवभाहुः यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदनु खलु जम्बूद्वीपम् एकं योजनसहस्रमेकं त्रयस्त्रिंशतं योजनशतमवगाद्य सूर्य श्चारं चरति, तत्र खलु उत्तमकाष्ठा प्राप्तः उत्कर्षक: अष्टादशमुहूत्तों दिवसो भवति, जघन्या द्वादशमुहूर्ती रात्रिभवति । तत्र यदा खलु सूर्यः सर्वबाज़ भण्डलमुपसंक्रम्य चारं चरति, तदा खलु लवणसमुद्रमेकं योजनसहस्रम् एकं च त्रयस्त्रिंशतं योजनशतम् अवगाह्य चारं चरति, तत्र खलु लवणसमुद्रमेकं योजनसहस्रम् एकं च त्रयस्त्रिंशत योजनशतम् अवगाह्य चारं चरति, तत्र खलु उत्तमकाष्ठा प्राप्ता उत्कषिका अष्टादशमुहर्ता रात्रि भवति, जघन्यो द्वादशमुहूत्तों दिवसो भवति, एवं खलु चतुस्त्रिंशतं योजनशतम् एवं खलु पश्चत्रिंशतं योजनशतम् (पश्चत्रिंशतोऽपि एवमेव भावनीयम् ) तत्र ये खलु एवमाहुः ते अपार्द्ध द्वीपं वा समुद्रं वा अवगाह्य सूर्यः चारं चरति । ते एवमाहुः-यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु अपार्द्ध जम्बूद्वीप मवगाह्य चार चरति, तत्र खल उत्तमकाष्ठा प्राप्तः उत्कर्षकोष्टादशमुहूतों दिवसो भवति जघन्या द्वादशमुहर्ता रात्रि भवति, एवं सर्ववाद्येऽपि, नवरम् अपार्द्ध लवणसमुद्रम्, तत्र खलु रात्रिंदिवं तथैव तत्र ये खलु एवमाहुः, ते न किञ्चिद्वीपं वा समुद्रं वा अवगाह्य सूर्यः चारं चरति ते एवमाहुः-तत्र यदा खलु सूर्थः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु न किश्चिद् द्वीप वा समुद्र वा अप्रगाह्य सूर्यचार चरति, तत्र खलु उत्तमकाष्ठा प्राप्त उत्कषेकः अष्टादशमुहत्तौ दिवसो भवति, तथैव एवं सर्वबाहये मण्डलेऽपि, नवरं किचिल्लवणसमुद्रमवगाह्य चारं चरति, रात्रि दिवं तथैव, एके एवमाहुः ॥सू० १६॥ इति ॥
टीका-सम्प्रति प्रारब्धमाणे पञ्चमे प्राभृतप्राभृतेऽर्थाधिकारे 'कियन्तं द्वीपं समुद्रं वा सूर्योऽवगाहते, एतद्विषयकान् प्रश्नान् गौतमः पृच्छति-'ता केवइयं ते दीवं समुद्द वा ओगाहित्ता सूरिए चारं चरइ आहिताति वएज्जा' तावत् कियन्तं तत्र द्वीपं समुद्रं वा अवगाह्य
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧