SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि ७३ देवाण य देवीण य' भवनवासीनाम् देवानाञ्च देवीनाश्च 'आहेवच्चं पोरेवच्चं' अधिपत्यम्, पौरपत्यम्, तत्र अधिपतेः कर्म आधिपत्यम्-रक्षणम्, पुरपतेः कर्म पौरपत्यम्, सर्वेषामात्मीयानाम् अग्रेसरत्वम्, 'सामित्त' स्वामित्वम् नायकत्वम् 'भट्टित्तं' भर्तृ त्वम्-पोषकत्वम्, 'महत्तरगतं' महत्तरकत्वम्-महाश्रेष्ठलम्, 'आणाईसर सेणावच्चं' आज्ञेश्वरसेनापत्यम्, आज्ञया ईश्वरः आज्ञेश्वरः, सेनायाः पतिः सेनापतिः, आज्ञेश्वरश्वासौ सेनापतिश्चेति, आज्ञेश्वरसेनापतिस्तस्य कर्म आज्ञेश्वरसेनापत्यम्, निजनिज-सैन्यम्प्रतिअद्भुतमाज्ञाप्रधानत्वमित्यर्थः, 'कारेमाणा' कारयन्तः अन्यपुरुषद्वारा सम्पादयन्तः 'पालेमाणा' पालयन्तः, स्वयमेव रक्षयन्तः, 'महताहतनगीतवाइयतन्तीतलतालतुडियषणमुइंगपडुप्पवाइयरवेणं' महताऽहतनाटयगीतवादिततन्त्रीतलतालत्रुटितपनमृदङ्गपटुप्रवादितरवेण, महतारवेणेति सम्बन्धः, कीदृशेन रवेणेत्याह-अहतानि-अव्याहतानि, नित्यानुबन्धीनि यानि नाटयगीतवादिततन्त्रीतलतालत्रुटितानि, तत्र नाटयम्-नृत्यम् गीतम्-गानम्, तन्त्री-वीणा, तलौ-हस्ततलौ, ताल:-कंसिका 'झारि' इति भाषाप्रसिद्धः, त्रुटितानि-वादित्राणि तथा यश्च घनमृदङ्गः, पटुना पुरुषेण प्रवादितः, तत्र धनमृदङ्गस्तावद् मेघसमानध्वनिस्तेषां रवेण-कलकलशब्देन 'दिव्वाई भोगभोगाई' दिव्यान, दिविभवान् प्रधानान् अपूर्वा नित्यर्थः, भोगभोगान्-भोगार्हाभोगा भोगभोगास्तान् ‘भुजमाणा विहरंति' भुञ्जानाः, विहरन्ति-तिष्ठन्ति, अथ उपयुक्तासुरकुमाराणाम् दाक्षिणात्यानाम् औदीच्यानाञ्च चमरबलिनामानौ द्वौ इन्द्रौ वर्तेते तयोर्वर्णनमारभते-'चमरबलिणो एत्थ दुवे' अत्र-उपर्युक्तासुरकुमाराणां स्थानेषु, चमरबलिनौ-चमरबलिनामानौ द्वौ 'असुरकुमारिंदा' असुरकुमारेन्द्री, 'असुरसैन्य की आज्ञा प्रधानता करते हुए, उनका पालन करते हुए रहते हैं । उनके यहां सदा नाट्य, गीत, एवं वीणा, तल (हस्ततल), ताल (झारी) मृदंग आदि का कुशल वादकों द्वारा वादन होता रहता है। वे दिव्य भोगोपभोगों को भोगते रहते हैं। दक्षिण और उत्तर दिशा के असुरकुमारों के दो इन्द्र हैं-चमर और बली । अब उनका वर्णन आरंभ किया जाता हैરહી અર્થાત્ પિત પિતાના લશ્કરની આજ્ઞા પ્રધાનતા કરતા થકા, તેઓનું પાલન કરતા રહીને રહે છે, તેમને ત્યાં સદા નાટય, ગીત, તેમજ વિણા, તાલ, તલ, મૃદંગ આદિ કુશલવાદ દ્વારા વાદન (વગાડાય છે. તેઓ દિવ્ય ભેગેપગેને ભેગવતા રહે છે. દક્ષિણ અને ઉત્તર દિશાના અસુરકુમારના બે ઈન્દ્ર છે–ચમર અને બલી હવે તેના વર્ણનને અરંભ કરાય છે. प्र० ९० શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy