________________
प्रमेयद्योतिका टीका प्र.३ उ.३ सू.१०३ खोदोदादिद्वीपसमुद्रनिरूपणम् ८३९ जाव पलिओवमठिईया परिवसंति से तेणट्रेणं गोयमा ! जाव णिचा जोइसं संखेज्ज ॥सू० १०३॥ ___छाया-क्षोदोदं खलु समुद्रं नन्दीश्वरवरो नाम द्वीपो वृत्तो वलयाकारसंस्थितः तथैव यावत् परिक्षेपः । पद्मवरवेदिका वनषण्डपरि० द्वार द्वारान्तर प्रदेशे जीवास्तथैव । तत् केनार्थेन-भदन्त ! एवमुच्यते ? गौतम ! देशे देशे बहवः क्षुद्राः० वाप्यो यावत् बिलपतयः क्षोदोदकप्रतिपूर्णाः उत्पातपर्वताः सर्ववज्रमयाः अच्छा यावत्प्रतिरूपाः । अथोत्तरं खलु गौतम ! नन्दीश्वरद्वीप चक्रवालविष्कम्भ बहुमध्यदेशभागे अत्र खलु चतुर्दिशि चत्वारोऽञ्जनपर्वताः प्रज्ञप्ताः ते चाजनपर्वता चतुरशीतियोजनसहस्राणि ऊर्ध्व मुच्चैस्त्वेन एकैकं योजनसहस्रमुद्वेधेन मूले सातिरेकाणि दशयोजनसहस्राणि धरणितले दशयोजनसहस्राणि आयामविष्कम्भेण ततोऽनन्तरं च खलु मात्रया-२ प्रदेश परिहान्या परिहीयमाना-२ उपरि-एकै योजनसहस्रमायामविष्कम्भेण मूले एकत्रिंशद् योजनसहस्राणि-षट् च त्रयोविंशत्यधिकानि योजनशतानि किंचिद्विशेषाधिकानि परिक्षेपेण धरणीतले एकत्रिंशद् योजनसहस्राणि-षट् च त्रयोविंशत्यधिकानि योजनशतानि देशोनानि परिक्षेपेण, शिखरतले त्रीणि योजनसहस्राणि एकं च द्वाषष्टं योजनशतं किंचिद्विशेषाधिक परिक्षेपेण प्रज्ञप्तः, मूले-विस्तीर्णाः मध्ये संक्षिप्ताः उपरि-तनुकाः गोपुच्छसंस्थानसंस्थिताः सञ्जिनमया-अच्छा यावत्प्रत्येकं-२ पद्मवरवेदिका परिक्षिप्ताःप्रत्येकं वनषण्डपरिक्षिताः वर्णकः। तेषां खलु अञ्जनपर्वतानामुपरि प्रत्येकं-२ बहुसमरमणीयो भूमिभागः प्रज्ञप्तः स यथा नामकः-आलिङ्गपुष्करमिति वा यावत् शेरते । तेषां खलु बहुसमरमणीयानां भूमिभागानां बहुमध्य देशभागे प्रत्येकं-सिद्धायतनानि एकैकं योजनशतमायामेन पञ्चाशद् योजनानि विष्कम्भेण द्वासप्ततिर्योजनानि ऊर्ध्वमुच्चस्त्वेनाऽनेकशतस्तम्भसन्निविष्टानि वर्णकः । तेषां खलु सिद्धायतनानां प्रत्येकं-२ चतुर्दिशि चत्वारि द्वाराणि प्रज्ञप्तानि तद्यथा-देवद्वारम्-१ असुरद्वारम्-२ नागद्वारम्-३ सुपणेद्वारम्-४ तत्र खलु चत्वारो देवा महद्धिका यावत्पल्योपमस्थिकाः परिवसन्ति तद्यथा-देवोऽसुरोनागः सुपर्णः । तानि खलु द्वाराणि षोडशयोजनानि ऊर्ध्वमुच्चैस्त्वेन अष्टौ योजनानि विष्कम्भेण तावदेव च प्रवेशेन श्वेतानि वरकनक० वर्णको यावद्वनमाला । तेषां खलु द्वाराणां चतुर्दिशि चत्वारो मुखमण्डपाः प्रज्ञप्ताः, ते खलु मुखमण्डपाः एकैकं योजनशतमायामेन पश्चाशद् योजनानि विष्कम्भेण सातिरेकाणि षोडशयोजनानि ऊर्ध्वमुच्चैस्त्वेन वर्णकः । तेषां खलु मुखमण्डपानां चतुर्दिशिचत्वारि (त्रिदिर्शि) त्रीणि द्वाराणि प्रज्ञप्तानि तानि खलु द्वाराणि षोडशयोजनानि ऊर्ध्वमुच्चैस्त्वेनाऽष्टौ योजनानि विष्कम्भेण तावदेव प्रवेशेन शेषं तदेव-यावद्वन
જીવાભિગમસૂત્ર