SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.९८ मनुष्यक्षेत्रनिरूपणम् ७३३ यन्तः ॥१॥ एकादश च सहस्राणि पइविंशतिश्च पोडश महाग्रहाणं तु । षट् च शतानि पण्णवतिनक्षत्राणि त्रीणि च सहस्राणि ॥२॥ अष्टाशीतिः शतसहस्राणि चत्वारिंशत्सहस्राणि मनुष्यलोके । सप्तशतान्यनूनानि तारागणकोटिकोटीनाम् ॥३॥ शोभामशोभन्त वा-३॥ एष तारापिण्डः सर्वसमासेन मनुष्यलोके । बाह्याः पुनस्तारा जिनै भणिता असंख्येयाः ॥१॥ एतावत्ताराग्रं यद्भणितं मानुष्य - लोके । चारं कदंबपुष्पसंस्थितं ज्योतिषं चरति ॥२॥ रविशशि ग्रहनक्षत्राणि एतावन्ति आख्यातानि मनुष्यलोके । येषां नामगोत्राणि न प्राकृतानि प्रज्ञापयिष्यन्ति ॥३॥ षट् षष्टिः पिटकानि चन्द्रादित्या मनुष्यलोके । द्वौ चन्द्रौ द्वौ सूयौं च भवत एकैकस्मिन् पिटके ॥४॥ षट्षष्टिः पिटकानि नक्षत्राणां तु मनुष्यलोके । षट् पंचाशत् नक्षत्राणि च भवन्ति एकैकस्मिन् पिटके ॥५॥ पटषष्टिः पिटकानि महाग्रहाणां तु मनुष्यलोके । षट्सप्ततं ग्रहशतं च भवति एकैकस्मन् पिटके ॥६॥ चतस्रश्च षङ्क्तयश्चन्द्रादित्यानां मनुष्यलोके । पट्षष्टिः षट्षष्टिः भवति चैकैकका पंक्तिः ॥७॥ षट् पंचाशत् षक्तियो नक्षत्राणां तु मनुष्यलोके । षट् षष्टिः षट् षष्टि भवति च एकैकका षक्तिः ।।८॥ षट् सप्ततं ग्रहाणां षक्तिशतं भवति मनुष्यलोके । षट् षष्टि : षट् षष्टिः च भवति एकैकका पंक्तिः ॥२॥ ते मेरं पर्यटन्तः प्रदक्षिणावर्तमण्डलाः सर्वे । अनवस्थितयोगैश्चन्द्राः सूर्याग्रहगणाश्च ॥१०॥ नक्षत्रतारकाणामवस्थितानि मण्डलानि ज्ञातव्यानि । तान्यपि च प्रदक्षिणावर्तमेव मेरुमनुचरन्ति ॥११॥ रजनीकर दिनकराणाम् ऊर्ध्व वा अधो वा संक्रमो नास्ति । मण्डलसंक्रमणं पुनराभ्यन्तरबाह्य तिर्यक् ॥१२॥ रजनीकर दिनकराणां नक्षत्राणां महाग्रहाणां च । चार विशेषेण भवति सुखदुःखविधिमनुष्याणाम् ॥१३॥ तेषां प्रविशतां तापक्षेत्रं तु वर्धते नियमात् । तेनैवक्रमेण पुनः परिहीयते निष्क्रामताम् ॥१४॥ तेषां कलंबुया पुष्पसंस्थिता भवति तापक्षेत्रपथाः। अंतश्च संकुचिताः बहिर्विस्तृताश्चन्द्रसूर्यगणाः । १५।। केन वर्धते चन्द्रः परिहाणिः केन भवति चन्द्रस्य । कृष्णो वा ज्योत्स्ना वा केनानुभावेन चन्द्रस्य ॥१६॥ कृष्णं राहुविमानं नित्यं चन्द्रेण भवति अविरहितम् । चतुरङ्गुलमप्राप्तमधस्ताचन्द्रस्य तच्चरति ॥१७॥ द्वाषष्टि षिष्टि दिवसे दिवसे तु शुक्लपक्षस्य । यत्परिवर्धते चन्द्रः क्षपयति तेनैव कालेन ॥१८॥ पंचदशभागेन च चन्द्रं पंच दशमेव तं वृणोति । पंचदश भागेन च पुनरपि तदेव प्रकटी करोति ॥१९॥ एवं वर्धते चन्द्रः परिहानिश्चैव भवति चन्द्रस्य । कृष्णो वा ज्योत्स्नो वा तेनानभावेन चन्द्रस्य ॥२०॥ अन्तर्मनुष्यक्षेत्रे भवन्ति चारोपगाश्च उपपन्नाः। पंचविधा ज्योतिष्काः चन्द्राः सूर्याग्रहगणाश्च ॥२१।। ततः परं ये शेषाः चन्द्रा જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy