SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.९१ देवद्वीपादिगतचन्द्रसूर्ययोः निरूपणम् ६३७ दकं समुद्रम् असंख्येयानि योजनसहस्राणि । एवं नागे यक्षे भूतेऽपि चतुर्णा द्वीपसमुद्राणाम् । क्व खलु भदन्त ! स्वयम्भूरमणद्वीपगानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः ?, स्वयम्भूरमणस्य द्वीपस्य पौरस्त्याद् वेदिकान्ताद् स्वयम्भूरमणोदकं समुद्रं द्वादशयोजनसहस्राणि तथैव राजधान्यः स्वकानां स्वकानां द्वीपानां पौरस्त्ये स्वयम्भूरमणोदकं समुद्रं पौरस्त्ये असंख्येयानि योजनसहस्राणि तदेव, एवं सूर्याणामपि स्वयम्भूरमणस्य समुद्रस्य पाश्चात्याद् वेदिकान्ताद् राजधान्यः स्वकानां२ द्वीपानां पाश्चात्ये स्वयम्भूरमणं समुद्रम् असंख्येयानि योजनसहस्राणि अवगाह्य, शेषं तदेव । कुत्र खलु भदन्त! स्वयम्भूरमणसमुद्रगवानां चन्द्राणां चन्द्रद्वीपा नामद्वीपाः प्रज्ञप्ताः ? गौतम ! स्वयम्भूरमणसमुद्रस्य पौरस्त्याद् वेदिकान्ताद स्वयम्भूरमयणसमुद्र पाश्चात्ये द्वादशयोजनसहस्राणि अवगाह्य शेषं तदेव. एवं सूर्याणामपि, स्वयम्भूरमणस्य पाश्चात्याद् स्वयम्भूरमणोदं समुद्रं पौरस्त्ये द्वादशयोजनसहस्राणि अवगाहा राजधान्यः स्वकानां द्वीपानां पौरस्त्ये स्वयम्भूरमणं समुद्रं असंख्येययानि योजनसहस्राणि अवगाह, अत्र खलु स्वयम्भूरमण यावत् सूर्या देवाः, सन्ति खलु भदन्त ! लवणसमुद्रे वेलंधरा इति वा, नागराज इति वा, खन्ना इति वा अग्धा इति वा सीहा इति वा, विजाइ इति वा हासवट्टी इति वा हन्त ? सन्ति । यथा खलु भदन्त ! लवणसमुद्रे सन्ति वेलंधरा इति वा नागराजा इति वा खन्ना इति वा अग्धा इति वा सीहा विजाइ इति वा हासवट्टी इति वा तथा खलु बाह्येष्वपि समुद्रेषु वेलंधराइति वा नागराजा इति वा खन्ना इति वा अग्धा इति वा सिंहा इति वा, विजाइ इति वा हासवट्टी इति वा, नायमर्थः समर्थः । लवणः खलु भदन्त! समुद्रः किम्-उच्छ्रितोदकः-किं प्रस्तटोदकः किं क्षुभितजलः किमक्षुभितजलः गौतम ! लवणः खलु समुद्रः उछ्रितोदको नो प्रस्तटोदकः क्षुभितजलः नो अक्षुभितजलः। यथा खलु भदन्त ! लवणः समुद्रः उच्छ्रितोदको नो प्रस्तटोदकः क्षुभितजलो नो अक्षुभितजलः, तथा खलु वाह्याः समुद्राः किमुच्छ्रितोदकाः प्रस्तटोदकाः क्षुभितजलाः अक्षुभितजलाः गौतम ! बाह्याः समुद्राः नोच्छ्रितोदकाः प्रस्तटोदकाः नो क्षुभितजलाः अक्षुभितजलाः पूर्णाः पूर्णप्रमाणाः वोलट्टमाणाः वोसट्टमाणाः समभरघटतया तिष्ठति । सन्ति खलु भदन्त ! लवणसमुद्रे बहव उदाराः बलाहकाः संखिद्यन्ते संमूर्च्छन्ति वा वर्ष वर्षन्ति हन्त ! सन्ति । यथा खलु भदन्त ! लवणसमुद्रे बहव उदारा बलाहकाः संखिद्यन्ते संमूर्च्छन्ति वर्ष वर्षन्ति वा, तथा खलु बाह्येष्वपि समुद्रेषु बहवः उदारा बलाहकाः संखिद्यन्ते संमूर्च्छन्ति वर्ष वर्षन्ति ? नायमर्थः समर्थः । तत्केनार्थेन भदन्त ! एवमुच्यते बाह्याः खलु समुद्राः पूर्णाः पूर्ण જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy