SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.९० धातकीषण्डे सूर्यचन्द्रयोर्वर्णनम् ६२१ दीवेसु समुदगाणं समुद्देसु सरिसणामएसु इमे णामा अणुर्गतव्वा, जंबुद्दीवे लवणे धायइ कालोद पुक्खरे वरुणे । खीर-घयइक्खुवरो य गंदी अरुणवरे कुंडले रुयगे ॥१॥ आभरण वत्थगंधे उप्पल तिलए य पुढवी णिहिरयणे। वासहर दह नईओ विजया वक्खार कप्पिदा ॥२॥ पुरमंदर मावासा कूडा नक्खत्तचंद सूरा य । एवं भाणियव्वं ॥सू० ९०॥ छाया-कुत्र खल भदन्त ! धातकीषण्डद्वीपगतानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः गौतम ! धातकीधण्डस्य द्वीपस्य पौरस्त्याद् वेदिकान्तात्कालोदं खलु समुद्रं द्वादश योजनसहस्राण्यवगाह्यऽत्र खलु धातकीषण्डद्वीपानां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः सर्वतः समन्ताद् द्वौ क्रोशावुच्छ्रिताः जलन्ताद् द्वादशयोजनसहस्राणि तथैव विष्कम्भपरिक्षेपः भूमिभागः प्रासादावतंसकः मणिपीठिका सिंहासनं सपरिवारम् अर्थस्तथैव राजधान्यः स्वकानां द्वीपानांपूर्वेणाऽन्यस्मिन् धातकीषण्डे द्वीपे शेषं तदेव । एवं सूर्यद्वीपा अपि, नवरं धातकीपण्डस्य द्वीपस्य पाश्चात्यात् वेदिकान्तात् कालोदं खलु समुद्रं द्वादशयोजनसहस्राणि तथैव सर्व यावद् राजधान्यः सूर्याणां द्वीपानां पश्चिमेनाऽन्यस्मिन् धातकीखण्डे द्वीपे सर्व तथैव । कुत्र खलु भदन्त ! कालोदगानां चन्द्राणां चन्द्र द्वीपा नाम द्वीपाः प्रज्ञप्ताः गौतम ! कालोदसमुद्रस्य पौरस्त्याद् वेदिकान्तात्का. लोदं खलु समुद्रं पश्चिमेन द्वादशयोजनसहस्राण्यवगाह्याऽत्र खलु कालोदग चन्द्राणां चन्द्रद्वीपाः सर्वतः समन्तात् द्वौ क्रोशावुच्छ्रिता जलान्तात्-शेषं तथैव यावद्राजधान्यः स्वकानां द्वीपानां पूर्वेणाऽन्यस्मिन् कालोदकसमुद्रे द्वादशयोजन० तदेव सर्व यावच्चन्द्रा देवाः । एवं सूर्याणामपि नवरं कालोदकपाश्चात्यात् वेदिकान्तात कालोदकसमुद्रः पूर्वेण द्वादशयोजनसहस्राण्यवगाह्य तथैव राजधान्यः स्वकानां द्वीपानां पश्चिमेनाऽन्यस्मिन् कालोदसमुद्रे तथैव सर्वम् । एवं पुष्करवरद्वीपगतानां चन्द्राणां पुष्करवरस्य द्वीपस्य पौरस्त्याद् वेदिकान्तात्पुष्करवरसमुद्रं द्वादशयोजनसहस्राण्यवगाह्य चन्द्रद्वीपाः अन्यस्मिन् पुष्करवरद्वीपे राजधान्यस्तथैव । एवं सूर्याणामपि द्वीपाः पुष्करवरद्वीपस्य पाश्चात्याद् वेदिकान्तात् पुष्करोदं समुद्रं द्वादशयोजनसहस्राण्यवगाह्य तथैव सर्वं यावद् राजधान्यो द्वीपगतानां द्वीपे-समुद्रगतानां समुद्रे एव एकेषामभ्यन्तर पार्श्वे एकेषां बाह्य पार्श्वे राजधान्यो द्वीपगतानां द्वीपेषु समुद्रगतानां समुद्रेषु सदृशनामकेषु-इमानि नामान्यवगन्तव्यानि જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy