SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ ६०२ जीवाभिगमसूत्रे भूमिभागो यावज्ज्योतिष्का देवा आसते । तेषां खलु बहुसमरमणीये भूमिभागे प्रासादावतंसको द्वापष्टियोजनानि बहुमध्यदेशभागे मणिपीठिकाः द्वे योजने यावत्सिंहासनं सपरिवारं भणितव्यं तथैवाऽर्थः गौतम ! बह्वीसु क्षुद्रासु क्षुल्लिकासु बहून्युत्पलानि चन्द्रवर्णाभानि चन्द्रौ अत्र देवी महद्धिको यावत् पल्योपमस्थितिकौ परिवसतः, तौ खलु तत्र प्रत्येकं २ चतुर्णा सामानिकसहस्राणां यावत् चन्द्रद्वीपयोः चन्द्रयोश्च राजधान्योः अन्येषाश्च बहनां ज्योतिष्काणां देवानां देवीनां चाऽऽधिपत्यं यावद् विहरतः । तत्तेनार्थेन गौतम ! चन्द्रद्वीपौ यावन्नित्यौ कुत्र खलु भदन्त ! जम्बुद्वीपगतयोश्चचन्द्रयोश्चन्द्रे नाम राज प्रज्ञप्ते, गौतम ! चन्द्रद्वीपयोः पूर्वेण तिर्यग यावदन्यस्मिन् जम्बूद्वीपे द्वीपे द्वादशयोजन सहस्राण्यवगाह्य तदेव प्रमाणं यावन्महद्धिको चन्द्रौ देवौं । कुत्र खलु भदन्त ! जम्बूद्वीपगतयोः सूर्ययोः सूर्यद्वीपौ नाम द्वीपौ प्रज्ञप्तौ, गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पश्चिमेन लवणसमुद्रं द्वादशयोजनसहस्राण्यवगाह्य तदेवोच्चत्व मायामविष्कम्भेण परिक्षेपो वेदिका वनषण्डः भूमिभागो यावदासते प्रासादाघतंसकानां तदेव प्रमाणं मणिपीठिका सिंहासनं सपरिवारम् अर्थः उत्पलानि सूर्यप्रभाणि सूयौँ अत्र देवौ यावद्राजधान्यौ स्वकयोः द्वीपयोः पश्चिमेनाऽन्यस्मिन् जम्बूद्वीपे द्वीपे शेपं तदेव यावत्सूयौँ देवौ । कुत्र खलु भदन्त ! आभ्यन्तर लावणिकयोश्चन्द्रयोश्चन्द्रद्वीपौ नाम द्वीपौ प्रज्ञप्तौ, गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वेण लवणसमुद्रं द्वादशयोजनसहस्राण्यवगाह्याऽत्र खलु अभ्यन्तर लावणिकयोश्चन्द्रयोश्चन्द्रद्वीपौ नाम द्वीपौ प्रज्ञप्तौ यथा-जम्बूद्वीपगतौ चन्द्रौ तयैव भणितव्यौ नवरं राजधान्यौ अन्यस्मिल्लवणे शेषं तदेव । एवमभ्यन्तरलावणिकयोः सूर्ययोरपि लवणसमुद्र द्वादश योजनसहस्राणि तथैव सर्वम् यावद् राजधान्यौ । कुत्र खलु भदन्त ! बाह्यलावणिकयोश्चन्द्रयोश्चन्द्रद्वीपौ नाम द्वीपौ प्रज्ञप्तौ, गौतम ! लवणस्य समुद्रस्य पौरस्त्याद् वेदिकान्ताल्लवणसमुद्रं पश्चिमेन द्वादशयोजनसहस्राण्यवगाह्यऽत्र खलु बाह्यलावणिकयोश्चन्द्रयोश्चन्द्रद्वीपौ नाम द्वीपौ प्रज्ञप्तौ धातकीपण्डद्वीपान्तेन अर्धेकोननवति योजनानि चत्वारिंशतं च पश्चनवतिभागान् योजनस्योच्छ्रितौ जलान्ताल्लवणसमुद्रान्तेन द्वौ क्रोशौ उच्छ्रितौ द्वादशयोजनसहस्राण्यायामविष्कम्भेण पद्मवरवेदिका वनषण्डः भूमिभागः मणिपीठिका सिंहासनं सपरिवारं स एवाऽर्थः राजधान्यौ स्वकयोःपयोः पूर्वेण तिर्यगसंख्येय० अन्यस्मिल्लवणसमुद्रे तथैव सर्वम् । कुत्र खलु भदन्त ! बाह्यलावणिकयोः सूर्ययोः सूर्यद्वीपौ नाम द्वीपौ प्रज्ञप्तौ, गौतम । लवणसमुद्र पश्चिमवेदिकान्ताल्लवणसमुद्रं पूर्वेण द्वादशयोजनसहस्राणि धातकीखण्डद्वीपान्तेन अर्धेकोननवतियोजनानि चत्वारिंशतं पश्चनवतिभागान् योजनस्य द्वौ क्रौशौ उच्छ्रितौ शेष જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy