________________
५५६
जीवाभिगमसूत्रे
गौतम ! गोस्तूपे खलु आवासपर्वते तत्र तत्र देशे तत्र बह्यः क्षुल्लक्षुल्लिकाः यावद् गोस्तूपवर्णानि बहूनि उत्पलानि तथैव यावद्गोस्तूपः तत्र तत्र देवो महर्द्धिको यावत् पल्योपमस्थितिकः परिवसति । स खलु तत्र चतुणां सामानिकसहस्राणां यावद् गोस्तूपस्याssवासपर्वतस्य गोस्तूपायाः राजधान्या यावद् विहरति । तत्तेनार्थेन यावद् नित्यः । राजधानी पृच्छा - गौतम ! गोस्तूपस्या- ऽऽवासपर्वत
पूर्वेण तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिव्रज्या - ऽन्यस्मिन् लवणसमुद्रे तदेव प्रमाणं - तथैव सर्वम् । कुत्र खलु भदन्त - ! शिवकस्य वेलंधरनागराजस्य दकाभास नामक आवासपर्वतः प्रज्ञप्तः - ? जंबूद्वीपे खलु द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन लवणसमुद्रं द्विचत्वरिंशद्शो जनसहस्राण्यवगाह्याऽत्र खलु शिवकस्य वेलं धरनागराजस्य दकोभासनामक आवास पर्वतः प्रज्ञप्तः तदेव प्रमाणं यद्गोस्तूपस्य नवरं सर्वाकमयोऽच्छो यावत्प्रतिरूपो यावदर्थो भणितव्यः । गौतम ! दकोभासः खलु आवासपर्वतः लवणसमुद्रेऽष्टयोजनिकक्षेत्रे दकं सर्वतः समन्तात् अवभासयति - उद्योतयति - तापयति - प्रभासयति । शिवकोऽत्र देवो महर्द्धिको यावत् राजधानी सा दक्षिणेन शिविका दकाभासस्य शेषं तदेव । कुत्र खलु भदन्त ! शंखस्य वेलंधरनागराजस्य शंखो नामाऽऽवासपर्वतः प्रज्ञप्तः ? गौतम ! जंबूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पश्चिमेन द्विचत्वारिंशतं योजनसहस्राण्यवगाह्याऽत्र खलु शंखस्य वेलंधरस्य शंखो नामाऽऽवासपर्वतः तदेव प्रमाणम्, नवरं सर्वरत्नमयोऽच्छ ः ० । स खल्वेका पद्मवेदिकया, एकेन च वनषण्डेन यावदर्थः बहयः क्षुल्लक्षुल्लिका यावद् बहून्युत्पलानि शंखाभानि - शंखवर्णानि शंखवर्णाभानि शंखोऽत्र देवो महद्धिको यावद् राजधानी पश्चिमेन शंखस्यावासपर्वतस्य शंखा नाम्नी राजधानी तदेव प्रमाणम् । कुत्र खलु भदन्त ! मनःशिलकस्य वेलंधरनागराज - स्योदकसीमो नामावासपर्वतः प्रज्ञप्तः ? गौतम ! जंबूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरेण लवणसमुद्रं द्विचत्वारिंशद् योजनसहस्राण्यवगाह्याऽत्र खलु मनःशिलकस्य वेलंधरनागराजस्योदकसीमो नामाऽऽवासपर्वतः प्रज्ञप्त स्तदेव प्रमाणाम्, नवरं सर्वस्फटिकमयोऽच्छो यावदर्थः, गौतम ! दकसी मे खलु - आवास पर्वते शीता शीतोदयोः महानयोस्तत्रगतानि स्रोतांसि प्रति हन्यन्ते तत्तेनार्थेन यावन्नित्यः, मनःशिलकोऽत्र देवो महर्द्धिको यावत् स खलु तत्र चतुर्णां सामानिक० यावद्विहरति । कुत्र खलु भदन्त ! मनःशिलकस्य वेलंधरनागराजस्य मनः शिला नाम्नी राजधानी ? गौतम ! दकसीमस्य आवासपर्वतस्योत्तरेण तिर्यगसंख्येय० अन्यस्मिन् लवणेऽत्र खलु मनःशिलिकानाम्नी राजधानी प्रज्ञप्ता तदेव प्रमाणं यावत् - मनःशिलको देवः _nasiatत्नस्फटिकमयाश्च वेलंधराणामावासाः । अनुवेलंधरराजानां पर्वता भवन्ति रत्नमयाः ।। ०८६ ।।
જીવાભિગમસૂત્ર