________________
प्रमेयद्योतिका टीका प्र.३ उ.३ सू.८६ वेलंधरनागराजस्वरूपनिरूपणम् ५५५ एत्थ देवे महडिए जाव से णं तत्थ चउण्हं सामाणियसाह० जाव विहरइ । कहि णं भंते मणोसिलगस्स वेलंधरणागरायस् मणोसिला नाम रायहाणी ? गोयमा! दगसीहस्स आवा. सपव्वयस्स उत्तरेणं तिरि० अण्णंमि लवणे एत्थ णं मणो. सिलिया णाम रायहाणी पण्णत्ता, तं चेव पमाणं जावमणो. सिलाए देवे कणगं करय य फालियमया य वेलंधराणमावासा अणुवेलंधरराईण पव्वया होंति रयणमया ॥सू० ८६॥
छाया-कति खलु वेलंधरा नागराजाः प्रज्ञप्ताः ? गौतम ! चत्वारो वेलंधरा नाम नागराजाः प्रज्ञप्ताः, तयथा-गोस्तूपः १ शिवकः २ शंखो ३ मनः शिलकः ४ । एतेषां खलु भदन्त ! वेलंधरनागराजानां कति आवासपर्वताः प्रज्ञप्ताः ? गौतम ! चत्वार आवासपर्वताः प्रज्ञप्ताः तद्यथा-गोस्तूप उदकभासः शंखो-दकसीमः । कुत्र खलु भदन्त ! गोस्तूपस्य वेलंधरनागराजस्य गोस्तूपो नाम-आवासपर्वतः प्रज्ञप्तः ? गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पूर्वेण लवणं समुद्रं द्वाचत्वारिंशतं योजनसहस्राणि अवगाह्याऽत्र खलु गोस्तूपस्य वेलंधरनागराजस्य गोस्तूपो नाम आवासपर्वतः प्रज्ञप्तः, सप्तदश योजनशतानि एकविंशत्यधिकानि ऊर्ध्वमुच्चैस्त्वेन चत्वारि योजनशतानि त्रिंशानि क्रोशं चोद्वेधेन मूले दशयोजनशतानि द्वाविंशत्युत्तराणि आयामविष्कम्भेण मध्ये सप्तयोजनशतानि त्रयोविंशत्युत्तराणि उपरि च चत्वारि योजनशतानि चतुर्विंशत्यधिकान्यायामविष्कम्भेण मूले-त्रीणि योजनसहस्राणि द्वे च द्वात्रिंशदुत्तरे योजनशते किंचिद्विशेषोने परिक्षेपेण, मध्ये द्वे योजनसहस्रे द्वे च योजनशते षडशीते किंचिद् विशेषाधिके परिक्षेपेण, उपरि एकं योजनसहस्रं त्रीणि च एकचत्वारिंशतानि योजनशतानि किंचिद् विशेषोनानि परिक्षेपेण, मूले विस्तीर्णो मध्ये संक्षिप्तः उपरि तनुको गोपुच्छसंस्थानसंस्थितः सर्वकनकमयोऽच्छो यावत्प्रतिरूपः । स खलु एकया पद्मवरवेदिकया-एकेन च वनषण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, द्वयोरपि वर्णकः । गोस्तूपस्य खलु आवासपर्वतस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तो यावदासते । तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र खलु एको महान् प्रासादावतंसकः सार्धानि द्वाषष्टिर्योजनानि ऊर्ध्वमुच्चस्त्वेन तदेव प्रमाणम् अर्धमायामविष्कम्भेण वर्णको यावत् सिंहासनं सपरिवारम् तत्केनार्थेन भदन्त ! एवमुच्यते गोस्तूप आवासपर्वतो गोस्तूपः आवासपर्वतः ?
જીવાભિગમસૂત્ર