________________
जीवाभिगमसूत्रे वाया संसेयंति-समुच्छिमंति- एयंति चलंति कंपति खुब्भंति घटुंति फंदंति तं तं भावं परिणमंति, तयाणं से उदए उण्णा. मिजति, जयाणं तेर्सि महापायालाणं खुड्डागपायालाण य हेदिल्ल मज्जिमिल्लेसु तिभागेसु नो बहवे ओराला जाव तं तं भावं न परिणमंति तयाणं से उदए नो उन्नामिज्जइ अंतरा वि य णं ते वायं उदीरेंति अंतरा वि य णं से उदगे उण्णामिज्जइ अंतरा वि य ते वाया नो उदीरेंति अंतरा वि य णं से उदगे णो उण्णामिजइ, एवं खल्लु गोयमा ! लवणसमुदं चाउदसटमुद्दिट्र पुण्णमासिणीसु अइरेगं २ वड्डइ वा हायइ वा ॥सू० ८३॥
छाया-कस्मात् खलु भदन्त ! लवणसमुद्रे चतुर्दश्यष्टम्युद्दिष्ट पौर्णमासीषु अतिरेकमतिरेकं वर्धते वा हीयते वा ? गौतम ! जंबूद्वीपस्य खलु चतुर्दिक्षु बाह्यात् वेदिकान्तात् लवणसमुद्रं पंचनवति योजनसहस्राणि अवगाह्याऽत्र खलु चत्वारो महालिंजरसंस्थानसंस्थिताः महामहालयाः महापातालाः प्रज्ञप्ताः तद् यथा-वडवामुखः १ केयूपः २ यूपः ३ ईश्वरः ४, ते खलु महापातालाः एकैकं योजनशतसहस्रमुद्वेधेन, मूले दशयोजनसहस्राणि विष्कम्भेण, मध्ये एक प्रादेशिक्या श्रेण्या एकैकं योजनशतसहस्रं विष्कम्भेण उपरि मुखमूले दशयोजन सहस्राणि विष्कम्भेण । तेषां खलु महापातालानां कुडयाः सर्वत्र समाः दश योजनशतबाहल्याः प्रज्ञप्ताः सर्ववज्रमयाः अच्छाः यावत्प्रतिरूपाः। तत्र खलु बहवो जीवाः पुद्गलाश्चाऽपक्रामंति व्युत्क्रामेति चीयन्ते उपचीयन्ते शाश्वताः खलु ते कुडयाः द्रव्यार्थतया वर्णपर्यायैः अशाश्वता तत्र खलु चत्वारो देवाः महर्द्धिकाः यावत्पल्योपमस्थितिकाः परिवसन्ति । तद यथा-कालो महाकाली वेलम्बः प्रभञ्जनः । तेषां खलु महापातालानां त्रयस्त्रिभागा: प्रज्ञप्ताः तद्यथाअधस्तनस्त्रिभागः मध्यमस्त्रिभाग:-उपरितनस्त्रिभागः। ते खलु त्रिभागास्त्रयत्रिंशद योजनसहस्राणि त्रीणि च त्रयस्त्रिंशानि योजनशतानि योजनविभागं च बाहल्येन । तत्र खलु यः सोऽधस्तनत्रिभागोऽत्र खलु वायुकायस्तिष्ठति, तत्र खलु यः स मध्यमत्रिभागोऽत्र खलु वायुकायश्च अप्कायश्च तिष्ठति, तत्र खलु यः स उपरितनस्त्रिभागः, अत्र खलु अप्कायस्तिष्ठति, अथोत्तरं च खलु गौतम ! लवणसमुद्रे तत्र तत्र देशे बहवः क्षुदलिजरसंस्थानसंस्थिताः क्षुद्रपातालकलशाः प्रज्ञप्ताः ते खलु क्षुद्रपातालकलशाः एकैकं योजनसहस्रम् उद्वेधेन मूले एकैकं योजनशतं विष्कम्भेण मध्ये एक प्रादेशिक्या श्रेण्या एकैकं योजनसहस्रं विष्कम्भेण
જીવાભિગમસૂત્ર