SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४० ___ जीवाभिगमसूत्रे आयुष्मन् ! तेषु खल नागदन्तकेषु बहूनि रजतमयानि सिककानि प्रज्ञप्तानि, तेषु खलु रजतमयेषु सिककेषु बहव्यः वैडूर्यमय्यो धूपघटिकाः प्रज्ञप्ताः, तद्यथाताः खलु धूपघटिकाः कालागुरुप्रवरकुन्दरुष्कतुरुष्क धूपमघमघायमानगन्धोघृताभिरामाः सुगन्धवरगन्धगन्धिकाः गन्धवर्तिभूता उदारेण मनोज्ञेन घ्राणमनोनिवृत्तिकरेण गन्धेन-तान् प्रदेशान् सर्वतः समन्तात् आपूरयन्त्योऽतीवातीव श्रिया यावत्तिष्ठन्ति ॥ विजयस्य खलु द्वारस्योभयोः पायो विधातो नैषेधिक्यां द्वे द्वे शालभञ्जिका परिपाटयौ प्रज्ञप्ते, खलु शालभञ्जिकाः लीलास्थिताः सुप्रतिष्ठिताः स्वलकृता नानाकारवासना नानामाल्यपिनद्धा मुष्टिग्राह्यमध्या आमेलकयमलयुगलवर्तिताऽभ्युन्नत पीनरतिद संस्थितपयोधरा रक्तापाङ्गा असितकेश्यः मृदुविशदप्रशस्तलक्षणसंवेल्लिताग्रशिरोजा ईषदशोकवरपादपसमुपस्थिता वामहस्तगृहीतानशाखः, ईषद् अड्डाक्षिकटाक्षचेष्टि तैमुष्णन्त्य इव चक्षुलोकनलेसैरन्योन्यं खिद्यन्त्य इव पृथिवीपरिणामाः शाश्वत भावमुपगताश्चन्द्रानना श्चन्द्रविलासिन्य श्चन्द्रार्धसमललाटाश्चन्द्राधिकसौम्यदर्शनाः, उल्का इव उदद्योतमाना विद्युद् घनमरीचि सूर्यदीव्यत्तेजोधिकतरसन्निकाशाः शृङ्गाराकारचारुवेषाः प्रासादीयाः४ तेजसा अतीवातीव उपशोभमाना उपशोभमानास्तिष्ठन्ति । विजयस्य खलु द्वारस्योभयोः पार्श्वयो ढेिधातो नैषेधिक्यां द्वौ द्वौ जालकटकौ प्रज्ञप्तौ, ते खलुजालकटकाः सर्वरत्नमया अच्छा यावत् प्रतिरूपा। विजयस्य खलु द्वारस्योभयोः पार्श्वयो द्विवातो नैषेधिक्यां द्वे द्वे घण्टापरिपाटयौ प्रज्ञप्ते, तासां खलु घण्टानामयमेतावद्रपो वर्णावासः प्रज्ञप्तः तद्यथा-जाम्बूनदमय्यो घण्टाः, वनमय्योलालाः, नानामणिमया घण्टापाः , तपनीयमय्यः शृंखला, रजतमय्यो रज्ज्वः ताः खलु घण्टा ओघस्वरा मेघस्वरा हंसस्वराः क्रौञ्चस्वरा नन्दिस्वरा नन्दिघोषाः सिंहस्वराः सिंहघोषा मजुस्वरा मञ्जुघोषाः सुस्वराः सुस्वरनिर्घोषाः, तान् प्रदेशान् उदारेण कर्णमनोनिवृत्तिकरण शब्देन यावत्तिष्ठन्ति विजयस्य खलु द्वारस्योभयोः पार्श्वयोर्द्वि धातो नैषेधिक्यां द्वे द्वे वनमालापरिपाटयौ प्रज्ञप्ते ताः खलु वनमाला नानाद्रुमलताकिसलयपल्लवसमाकुलाः षट्रपदपरिभुज्यमानकमलशोभमानसश्रीकाः प्रासादीयाः४, तान् प्रदेशान् उदारेण यावद् गन्धेन आपूर्यमाणा२ यावत्तिष्ठन्ति ।सू.५५। सम्प्रति जम्बूद्वीपस्य द्वारवर्णनं करोति सूत्रकारः 'जंबुद्दीवस्स णं भंते ! दीवस्स' इत्यादि। टीका-'जंबुद्दीवस्स णं भंते ! दीवस्स' जम्बूद्वीपस्य खलु भदन्त ! द्वीपस्य, 'जबुद्दीवस्स णं भंते । दीवस्स कइ दारा पन्नत्ता' इत्यादि टीकार्थ-श्रीगौतमस्वामी ने प्रभुश्री से ऐसा पूछा है 'जम्बुद्दीवस्स णं 'जबुद्दीवस्स णं भंते ! दीवस्स कइ दारा पण्णत्ता' छत्याह An:-श्रीगौतमस्वामी प्रभुश्रीन मे पूछ्यु 'जंबुद्दीवस्स णं भंते ! જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy