SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.५५ जंबूद्वीपद्वारसंख्यादि निरूपणम् ३९ मेव प्रवेशेन श्वेतं वरकनकस्तूपिकाकम् ईहामृगवृषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलता पद्मलताभक्तिचित्रम्, स्तम्भोद्गतवज्रवेदिका परिगताभिरामम्, विद्याधरयमलयुगलयन्त्रयुक्तमिब अर्चिसहस्रमालिकं रूपकसहस्रकलितं दीप्यमानं देदीप्यमानं चक्षुर्लोकनलेसं सुखस्पर्श सश्रीकरूपं वर्णों द्वारस्य तस्यायं भवति, तद्यथा-वन्नमया नेमाः, रिष्टमयाः प्रतिष्ठानाः, वैडूर्यमयाः स्तम्भाः, जातरूपोपचितप्रवरपञ्चवर्णमणिरत्नकुट्टिमतलो हंसगर्भमयएजुकः, गोमेदमय इन्द्रकीलः, लोहिताक्षमग्यौ द्वारचेटयौ, ज्योतीरसमयमुत्तरङ्गम्, वैडूर्यमयाः कपाटाः, वज्रमय्यः संधयः लोहिताक्षमय्यः सच्यः, नानामणिमयाः समुद्काः, वज्रमय्यः अर्गलाः अर्गलप्रसादाः वनमग्य आवर्तनपीठिकाः, अङ्कोत्तरपार्श्वकं निरन्तिकधनकपाटम्, भित्तिष्वेव भित्तिगुटिकाः षट्पश्चाशत्रिका भवन्ति, गोमानस्यस्तावतिकाः, नानामणिरत्नव्यालरूपकलीलास्थितसालभञ्जिकाः, वज्रमयः कूटः, रजतमय उत्सेधः सर्वतपनीयमय उल्लोकः, नानामणिरत्नजालपञ्जरमणिवंशकलोहिताक्षप्रतिवंशकरजतभौमः, अङ्कमयाः पक्षवाहाः, ज्योतीरसमया वंशाः वंशकवेल्लुकाश्च, रजतमय्यः पट्टिकाः, जातरूपमय्योऽवधाटिन्यः वज़मय्य उपरि पुन्छन्यः सर्वश्वेतरजतमयं छादनम्, अङ्कमयकनकटतपनीयस्तूपिका, श्वेत शंखतलविमलनिर्मलदधिधनगोक्षीरफेनरजतनिकरप्रकाशम्, तिलकरत्नार्द्धचन्द्रचित्रम्, नानामणिमयदामालङ्कृतम्, अन्तर्बहिश्च श्लक्ष्णम्. तपनीयबालुकाप्रस्तटम्, शुभस्पर्श सश्रीकरूपं प्रासादीयम्४। विजयस्य खलु द्वारस्योभयो पार्श्वयो विधातो नैषेधिक्यां द्वे द्वे चन्दनकलशपरिपाटयौ प्रज्ञप्ते, ते खलु चन्दनकलशाः वरकमलप्रतिष्ठानाः सुरभिवरवारिपूर्णाः चन्दनकृतचर्चाकाः आविद्धकण्ठेगुणाः पद्मोत्पलपिधानाः सर्वरत्नमया अच्छाः श्लक्ष्णा यावत्प्रतिरूपाः, महातिमहन्महेन्द्रकुम्भसमानाः प्रज्ञप्ताः श्रमणायुष्मन् ? । विजयस्य खलु द्वारस्य उभयोः पार्श्वयो द्विधातो नैषेधिक्यां द्वे द्वे नागदन्तपरिपाटयौ प्रज्ञप्ते, ते खलु नागदन्तामुक्ताजालान्तरोत्सृतहेमजालगवाक्षजालकिङ्किणीधण्टाजालपरिक्षिप्ता अभ्युद्गता अभिनिसृष्टास्तियकूसुसंप्रगृहीता अधःपन्नगा रूपाः पन्नगाद्धसंस्थान संस्थिताः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः, महातिमहद् गनदन्तसमानाः प्रज्ञप्ताः श्रमणायुष्मन् !॥ तेषु खलु नागदन्तकेषु बहवः कृष्णसूत्रबद्धव्याधारितमाल्यदामकलापा यावच्छुक्लसूत्र बद्धव्याघारितमाल्यदामकलापाः । तानि दामानि तपनीय लम्बूसकानि सुवर्णप्रतरकमण्डितानि नानामणिमयरत्नविविधहारार्द्धहारोपशोभितसमुदायानि यावच्छिया आतीवातीवोपशोभमानानि उपशोभमानानि तिष्ठन्ति ॥ तेषां खलु नागदन्तकानामुपरि अन्ये द्वे द्वे नागदन्तपरिपाटयौ प्रज्ञप्ते, तेषां खलु नागदन्तकानां मुक्ताजालान्तरोत्सता स्तथैव यावत् श्रमण ! જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy