SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.६६ विजयदेवाभिषेकवर्णनम् २९७ विजयस्त देवस्स विजयाए रायहाणीए अन्नेसिं च बहणं विज. यरायहाणी वत्थव्वगाणं वाणमंतराणं देवाणं देवीण य आहेवच्चं जाव आणाईसरसेणावच्चं कारेमाणे पालेमाणे विहराहि त्तिकट्ठ महया महया सदेणं जयजयसदं पउंजंति ॥सू०६६॥ छाया-ततः खलु तं विजयं देवं चत्वारि च सामानिकसहस्राणि चतस्रोऽग्रमहिष्यः सपरिवाराः तिस्रः परिषदः सप्ताऽऽनीकानि सप्तानीकाधिपतयः षोडशात्मरक्षकदेवसहस्राणि अन्ये च बहवो विजयराजधानी वास्तव्या वाणमन्तरा देवादेव्यश्च तैः स्वाभाविकै रुत्तरवैकुर्विकैश्च वरकमलप्रतिष्ठानैः सुरभिवरवारि परिपूर्ण-श्चन्दनकृतचर्चाकैः आविद्धकण्ठेगुणैः पद्मोत्पलपिधानैः करतलसुकुमालकोमलपरिगृहीतैः अष्टसहस्राणां सौवर्णिककलशानां रूप्यमयाणां तावत् यावद अष्टसहस्राणां भौमेयकलशानाम्, सवौषधीभिः सर्वमृत्तिकाभिः सर्वर्तुवरैः सर्वपुष्पैः यावत्सौंषधि सवार्थसिद्धकैः सर्वऋद्धया सर्वद्युत्या सर्ववलेन सर्वसमुदयेन सर्वादरेण सर्वविभूत्या सर्वविभूषया सर्वसंभ्रमेण सर्वारोहेण सर्वनाटकैः सर्वपुष्पगन्धमाल्यालङ्कारविभूषया सर्वदिव्यत्रुटितनिनादेन, महत्त्या ऋद्धया, महत्या द्युत्या, महता बलेन महता समुदयेन महता त्रुटितयमकसमक पटु प्रवादितरवेण शंख पणव पटह भेरी झल्लरी खरमुखी मृदङ्ग दुन्दुभि हुडुक्क निर्घोष सनिनादितरवेण महता इन्द्राभिषेकेण अभिसिञ्चन्ति । तस्य खलु विजयस्य देवस्य महता महता इन्द्राभिषेके वर्तमाने-अप्येकका देवा नात्युदकं नातिमृत्तिकं प्रविरलस्पृष्टं दिव्यं सुरभिं रजोरेणुविनाशनं गन्धोदकवर्ष वर्षन्ति, अप्येकका देवा निहतरजसं नष्टरजसं भ्रष्टरजसं-प्रशान्तरजसमुपशान्तरजसं कुर्वन्ति, अप्येकका देवा विजयां राजधानी सर्वाऽऽभ्यन्तर-बाह्यामासिक्त-सम्मार्जितो-पलिप्ताम्-सिक्त-शुचि-सम्मृष्टरध्यान्तराऽऽपण-वीथिकां कुर्वन्ति, अप्येकका देवाः विजयां राजधानी-मश्चाऽतिमञ्चकलितां कुर्वन्ति, अप्येकका देवा विजयां राजधानी नानाविधरागरञ्जितोच्छित जयविजय वैजयन्ती पताकाऽतिपताकमण्डितां कुर्वन्ति, अप्येकका देवा विजयां राजधानी गोशीर्षरक्तचन्दनदर्दरदत्तपश्चाङ्गुलितलां कुर्वन्ति – अप्येकका देवा विजयां राजधानीमुपचितचन्दनकलशां चन्दनघटसुकृततोरणप्रतिद्वारदेशभागां कुर्वन्ति अप्येकका देवा विजयां राजधानीम्-आसक्तोत्सक्त विपुलवृत्तावलम्बितमाल्यदामकलापां कुर्वन्ति , अप्येकका देवा विजयां राजधानीम्पञ्चवर्णसरससुरभि मुक्तपुष्पपुञ्जोपचारकलितां कुर्वन्ति अप्येकका देवाः विजयां राजधानी कालागुरुप्रवरकुन्दरुष्कतुरुष्कधूपमघमघायमानां गन्धोद्धृताभिरामां सुगन्धवरगंधवर्तिभूतां कुर्वन्ति अप्येकका देवा हिरण्यवर्ष वर्षन्ति अप्येकका देवाः सुवर्णवर्ष वर्षन्ति, जी० ३८ જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy