SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८४ जीवाभिगमसूत्रे छत्रोपगशिरीष - सप्तपर्ण - दधिपर्णं - लोध्रधवचन्दननी पकुटजकदम्बपनसतालतमालप्रियालप्रियङ्गु - पारावतराजवृक्ष नन्दिवृक्षैः सर्वतः समन्तात् संपरिक्षिप्ताः ॥ ते खलु तिलका यावत् नन्दिवृक्षाः मूलवन्तः कन्दवन्तो यावत्सुरम्याः ते खलु तिलकाः यावन्नन्दिवृक्षाः अन्याभिर्बह्वीभिः पद्मलताभि यवत् - श्यामलताभिः सर्वतः समन्तात् सम्परिक्षिप्ताः ताः खलु पद्मलताः यावत् - श्यामलताः नित्यं कुसुमिताः यावत्प्रतिरूपाः तेषां खलु चैत्यवृक्षाणामुपरि बहूनि अष्टमङ्गलकानि ध्वजाश्छत्रातिच्छत्राणि । तेषां खलु चैत्यवृक्षाणां पुरतस्त्रिदिशि तिस्रो मणिपीठिका: प्रज्ञप्ता । ताः खलु मणिपीठिकाः योजनमायामविष्कम्भेणाऽर्द्धयोजनं बाहल्येन सर्वमणिमय्यः अच्छा यावत् प्रतिरूपाः तासां खलु मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं माहेन्द्रध्वजा अष्टमानि योजनानि ऊर्ध्वमुच्चत्वेन अर्धको शमुद्वेधेनाऽर्द्धकोशं विष्कम्भेण वज्रमयवृत्त लष्ठसंस्थित सुश्लिष्ट परिघृष्टमृष्टसुप्रतिष्ठिताऽविशिष्टाः अनेकवर पञ्चवर्णकुडभी सहस्रपरिमण्डिताऽभिरामाः वातोद्धृत विजयवैजयन्तीपताकाः छत्रातिच्छत्रकलिताः तुङ्गा गगनतलमभिलङ्घयमान शिखराः प्रासादिकाः यावत्प्रतिरूपाः । तेषां खलु माहेन्द्रध्वजानामुपरि अष्टावष्टौ मनलकानि ध्वजा छत्रातिच्छत्राणि । तेषां खलु माहेन्द्रध्वजानां त्रिदिशि तिस्रो नन्दाः पुष्करिण्यः प्रज्ञप्ताः ताः खलु पुष्करिण्यः अर्द्धत्रयोदश योजनानि आयामेन स क्रोशानि षडूयोजनानि विष्कम्भेण दशयोजनानि उद्वेधेनाऽऽच्छाः श्लक्ष्णाः पुष्करिणी वर्णकः प्रत्येकं प्रत्येकं पद्मवरवेदिकाः परिक्षिप्ताः प्रत्येकं प्रत्येकं वनखण्ड परिक्षिप्ताः वर्णको यावत् प्रतिरूपाः । तासां खलु पुष्करिणीनां प्रत्येकं प्रत्येकं त्रिदिशि त्रिसोपानप्रतिरूपकाः प्रज्ञप्ताः, तेषां खलु त्रिसोपानप्रतिरूपकाणां वर्णकः - तोरणानि भणितव्यानि यावत् - छत्रातिच्छत्राणि सभा सुधर्मायाः खलु षड्मनोगुलिसाहस्त्र्यः प्रज्ञप्ताः । तद्यथा - पूर्वस्यां द्वे साहस्त्र्यौ पश्चिमायां द्वे साहस्त्र्यौ दक्षिणस्यां - एकसाहस्री तासु खलु मनोगुलिकासु बहवः सुवर्णरूप्यमया फलकाः प्रज्ञप्ताः । तेषु खलु सुवर्णरूप्यमयेषु फलकेषु बहवो वज्रमया नागदन्तकाः प्रज्ञप्ताः तेषु खलु वज्रमयेषु नागदन्तकेषु बहवः कृष्णसूत्रवृत्तावलम्बित माल्यदामकलापाः यावत् शुकसूत्रवृत्तावलम्बित माल्यदामकलापाः तानि खलु माल्यदामानि तपनी यलम्बु सगानि यावत्तिष्ठन्ति । सभायाः खलु सुधर्मायाः षड्गोमानसी साहस्त्र्यः प्रज्ञप्ताः, तद्यथा - पूर्वस्यां द्वे साहस्त्रयों एवं पश्चिमायामपि दक्षिणस्यां सहस्रम् - एवमुत्तरस्यामपि तासु खलु गोमानसीषु बहवः सुवर्णरूप्यमया फलकाः प्रज्ञप्ता यावत्तेषु खलु वज्रमयेषु नागदन्तकेषु बहवो रजतमयाः सिक्का: प्रज्ञप्ताः तेषु खलु रजतमयेषु सिककेषु बढ्यो वैदूर्यमग्यो धूपघटिकाः प्रज्ञता, ताः खलु धूपधटिकाः कालागुरु- प्रवरकुन्दरुकतुरुष्क यावद् प्राण જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy