SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ. ३ सू. ६१ सुधर्मासभायाः वर्णनम् १८३ मेण यावत द्वे योजने, दर्ध्वमुञ्चत्वेन यावन्मणिस्पर्शाः । तेषां खलु बहुमध्यदेश भागे प्रत्येकं प्रत्येकं वज्रमयाः अक्षवाटकाः प्रज्ञप्ताः तेषां खलु वज्रमयानामक्षावाटकानाम् बहुमध्य देशभागे प्रत्येकं प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः । ताः खलु मणिपीठिकाः योजनमेकमायामविष्कम्भेणाऽर्द्धयोजने बाहल्येन सर्वमणिमध्योऽच्छाः यावत् प्रतिरूपाः । तासां खलु मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं सिंहासनानि प्रज्ञप्तानि सिंहासन वर्णको यावद्दामानि परिवारः । तेषां खलु प्रेक्षागृहमण्डपानामुपरि - अष्टावष्टौ मङ्गलकानि ध्वजाच्छत्रातिश्छत्राणि ॥ तेषां खलु प्रेक्षागृह मण्डपानां पुरतस्त्रिदिशि तिस्रो मणिपीठिकाः प्रज्ञप्ताः । ताः खलु मणिपीठिका: द्वे योजने आयामविष्कम्भेण योजनं बाहल्येन सर्वरत्नमय्योऽच्छाः यावत्प्रतिरूपाः । तासां खलु मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं चैत्यस्तूपाः प्रज्ञप्ताः ते खलु चैत्यस्तूपाः द्वे योजने आयामविष्कम्भेण सातिरेके द्वे योजने ऊर्ध्वमुचत्वेन श्वेताः शङ्खाङ्ककुन्दोदकरजोऽमृतमथित फेनपुञ्जसन्निकाशा सर्वरत्नमयाः अच्छा यावत्प्रतिरूपाः । तेषां खलु चैत्यस्तूपानामुपरि - अष्टौ - अष्टौ मङ्गलकानि बहुकृष्ण चामरध्वजाः प्रज्ञप्तानि छत्रातिच्छत्राणि । तेषां चैत्यस्तूपानां चतुर्दिशि प्रत्येकं प्रत्येकं चतस्रो मणिपीठिकाः प्रज्ञप्ताः । ताः खलु मणिपीठिकाः योजनमायामविष्कम्भेणाऽर्द्धयोजनं बाहल्येन सर्वमणिमय्यः । तासां खलु मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं चतस्रो जिनप्रतिमाः जिनोत्सेधप्रमाणमात्राः पर्यङ्कनिषण्णाः स्तूपिकाऽभिमुख्यः सन्निविष्टास्तिष्ठन्ति । तद्यथा - ऋषभा वर्द्धमाना:- चन्द्रानना-वारिसेनाः । तेषां खलु चैत्यस्तूपानां पुरतस्त्रिदिशि प्रत्येकं प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः । ताः खलु मणिपीठिकाः द्वे द्वे योजनेनाऽऽयामविष्कम्भेण सर्वमणिमयोऽच्छाः लण्हः श्लक्ष्णाः वृष्टा मृष्टा निष्पङ्का नीरजस्का यावत्प्रतिरूपाः तासां खलु मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं चैत्यवृक्षाः प्रज्ञप्ताः ते खलु चैत्यवृक्षाः अष्टयोजनानि ऊर्ध्वमुच्चत्वेनाऽर्द्धयोजनमुत्सेधेन द्वे योजने स्कन्धः अर्द्धयोजनं विष्कम्भेण षड़योजनानि विडिमा बहुमध्यदेश भागेऽष्टयोजनानि आयामविष्कम्भेण सातिरेकाणि अष्टयोजनानि सर्वाग्रेण प्रज्ञप्ताः ॥ तेषां खलु चैत्यवृक्षाणाम् अयमेतद्रूपो वर्णावासः प्रज्ञप्तः । तद्यथा - वज्रमया मूला: रजत सुप्रतिष्ठिता 'विडिमा' रिष्टमयविपुलकन्दवैडूर्यरुचिरस्कन्धाः सुजातरूपप्रथमक विशालशालाः नानामणिरत्न विविध शाखप्रशाख वैडूर्यपत्र तपनीयपत्र - वृन्ता: जाम्बूनदरत्न मृदुसुकुमारप्रवालपल्लवशोभमानवराङ्कुराऽग्रशिखराः विचित्रमणिरत्न सुरभि कुसुमफलभरनतशाखाः सच्छायाः सप्रभाः समरीचिकाः सोद्द्योता: अमृतरससमर सफलाः, अधिकं नयनमनोनिवृतिकराः प्रासादीयाः दर्शनीयाः अभिरूपाः प्रतिरूपाः । ते खलु चैत्यवृक्षाः अन्यैर्बहुभिस्तिलक - लवंग - જીવાભિગમસૂત્ર "
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy