SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे काणि सर्वरत्नमयानि अच्छानि इलक्ष्णानि लण्हानि धृष्टानि मृष्टानि नीरजस्कानि निर्मलानि निष्पङ्कानि निष्कङ्कटच्छायानि सप्रभाणि समरीचीनि सोद्योतानि प्रासादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि । तेषु खलु आलिकगृहकेषु यावदादर्शगृहकेषु बहूनि हंसासनानि यावदिक्सौवस्तिकासनानि सर्वरत्नमयानि यावत्प्रतिरूपाणि । तस्य खलु वनषण्डस्य तत्रतत्र देशे तत्रतत्र बहवो जातीमण्डपका यथिकामण्डपका मल्लिकामण्डपका नवमल्लिकामण्डपका वासन्तीमण्डपका दधिवासुकमण्डपकाः सूरिल्लिमण्डपकाः ताम्बूलीमण्डपका मुद्रिकामण्डपका नागलतामण्डपका अतिमुक्तमण्डपका अप्फोयामण्डपका मालुकामण्डपकाः श्यामलतामण्ड पकाः नित्यं कुसुमिता नित्यं यावत प्रतिरूपाः। तेषु खलु जातीमण्डपकेषु यावत् श्यामलतामण्डपकेषु बहवः पृथिवीशिलापट्टकाः प्रज्ञप्ताः तद्यथा-हंसासनसंस्थिताः क्रौंचासनसंस्थिता, गरुडासनसंस्थिता उन्नतासनसंस्थिताः प्रणतासनसंस्थिता दीर्धासनसंस्थिता भद्रासनसंस्थिताः पक्ष्यासनसंस्थिता मकरासनसंस्थिता वृषभासनसंस्थिताः सिंहासनसंस्थिताः पद्मासनसंस्थिता दिसौवस्तिकासनसंस्थिताः प्रज्ञप्ताः। तत्र बहवो वरशयनासनविशिष्टसंस्थानसंस्थिताः प्रज्ञप्ताः श्रमणायुष्मन् ! आजिनकरुतबूरनवनीततूलस्पर्शा मृदुकाः सर्वरत्नमया अच्छा यावत् प्रतिरूपाः। तत्र खलु बहवो वानव्यन्तरा देवा देव्यश्चासते शेरते तिष्ठन्ति निषीदन्ति त्ववर्तयन्ति रमन्ते ललन्ति क्रीडन्ति मोहन्ति पुरापुराणानां सुचीर्णानां सुपरिक्रान्तानां शुभाना कल्याणानां कृतानां कर्मणां कल्याणं फलवृत्तिविशेष प्रत्यनुभवन्तो विहरन्ति । तस्याः खलु जगत्या उपरि अन्तः पद्मवरवेदिकायाः, अत्र खलु एको महान् वनपण्डः प्रज्ञप्तः, देशोने द्वे योजने विष्कम्भेण वेदिकासमकः खलु परिक्षेपेण कृष्णावभासो वनषण्डवर्णको मणितणशब्दविहीनो ज्ञातव्यः, तत्र खलु वहवो वानव्यन्तरा देवा देव्यश्च आसते शेरते तिष्ठन्ति निषीदन्ति त्वगवर्त्तयन्ति रमन्ते ललन्ति क्रीडन्ति मोहन्ति पुरापुराणानां सुपरिक्रान्तानां शुभानां कृतानां कर्मणां कल्याणं फलवृत्तिविशेष प्रत्यनुभवन्तो विहरन्ति ॥५४॥ टीका-'तस्स णं वणसंडस्स' तस्य खलु वनषण्डस्य मध्ये 'तत्थ तत्थ तत्र२ 'देसे२' देशे देशे 'तहिं तहिं' तस्यैव देशस्य तत्र तत्रैकदेशे 'बहवे खुडूडा 'तस्स णं वणसंडस्स तत्थ २ देसे तहिं तहिं वहवे' इत्यादि। टीकार्थ-'तस्स णं वणसंडस्स' उस वनषण्ड में जगह जगह परવનખંડને ઉદેશીને કથન કરવામાં આવે છે. 'तस्स णं वणसंडस्स तत्थ तत्थ देसे तहिं तहिं बहवे' त्यात -'तस्स णं वणसंडस्स' से पनमा स्थणे स्थणे 'बहवे' मने જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy