SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.५४ वनषण्डगत वाप्यादीनां वर्णनम् ५ विलपङ्क्तीनाम् तत्र तत्र देशे तत्र बहूनि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि । तेषां खलु त्रिसोपानप्रतिरूपकाणामयमेतावद्र्पो वर्णावासः प्रज्ञप्तः, तद्यथा-वत्रमयानेमाः रिष्टमयाः प्रतिष्ठानाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयाः फलकाः वन्नमयाः सन्धयः लोहिताक्षमय्यः सूच्यः नानामणिमया अवलम्बना अवलम्बनबाहाः । तेषां खलु त्रिसोपानकानां पुरतः प्रत्येकं प्रत्येकं तोरणानि प्रज्ञप्तानि । तानि खलु तोरणानि नानामणिमयस्तम्भेषु उपविष्टानि सन्निविष्टानि विविधमुक्तान्तरोपचितानि विविधतारारूपोपचितानि ईहामृगवृषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभकुञ्जरवनलतापद्मलताभक्तिचित्राणि स्तम्भोद्गतवन्नवेदिका परिगताभिरामाणि विद्याधरयमलयुगलयन्त्रयुक्तानीव । अचिःसहस्रमालनीयानि भिसमाणा भिब्भिसमाणा, दीप्यमानानि अतिशयेन दीप्यमानानि चक्षुर्लोकनलेश्यानि सुखस्पर्शानि सश्रीकरूपाणि प्रासादीयानि ४। तेषां खलु तोरणानामुपरि बहूनि अष्टाष्टमङ्गलकानि प्रज्ञप्तानि, स्वस्तिक१-श्रीवत्स२-नन्दिकावर्त्त३वर्द्धमान४-भद्रासन५-कलश६-मत्स्य७ दर्पणानि सर्वरत्नमयानि अच्छानि श्लक्ष्णानि यावत् प्रतिरूपाणि । तेषां खलु तोरणानामुपरि बहवः कृष्णचामरध्वजा नीलचामरध्वजा लोहितचामरध्वजा हरिद्राचामरध्वजाः शुक्ल चामरध्वजा अच्छाः श्लक्ष्णा रूप्यपट्टा वनदण्डा जलजामलगन्धिकाः सुरम्याः सुरूपाः प्रासादीयाः ४। तेषां खलु तोरणानामुपरि बहूनि छत्रातिच्छत्राणि पताकातिपताकाः धण्टायुगलानि चामरयुगलानि उत्पलहस्तका यावच्छतसहस्रवृत्तहस्तकाः सर्वरत्नमयाः यावत्प्रतिरूपाः । तासां खलु क्षुल्लिकानां वापीना यावद् बिलपङ्क्तीनां तत्र तत्र देशेर तत्र तत्र वहव उत्पातपर्वता, नियतिपर्वता जगतीपर्वता दारुपर्वताः दकमण्डपका दकमञ्चका दकमालका दकप्रासादका उसडाः 'उच्चा' क्षुल्लाः खडह डगा अन्दोलकाः पक्ष्यन्दोलकाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः । तेषु खलुत्पातपर्वतेषु यावत् पक्ष्यन्दोलकेषु बहूनि हंसासनानि क्रौञ्चासनानि गरुडासनानि उन्नतासनानि प्रणतासनानि दीर्धासनानि भद्रासनानि पक्ष्यासनानि मकरासनानि बृषभासनानि सिंहासनानि पद्मासनानि दिक्सौवस्तिकासनानि सर्वरत्नमयानि अच्छानि श्लक्ष्णानि लण्हानि घृष्टाान मृष्टानि नीरजस्कानि निर्मलानि निप्पङ्कानि निष्कंकटच्छायानि सप्रभाणि समरीचिकानि सोद्योतानि प्रासादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि । तस्य खलु बनपण्डस्य तत्र तत्र देशे तत्रतत्रालिकगृहकाणि कदलीगृहकाणि लतागृहकाणि अवस्थानगृहकाणि, प्रेक्षणगृहकाणि, मञ्जनगृहकाणि प्रसाधनगृहकाणि गर्भगृहकाणि मोहनगृहकाणि शालगृहकाणि जालगृहकाणि कुसुमगृहकाणि चित्रगृहकाणि गन्धर्वगृहकाणि आदर्शगृह જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy