SearchBrowseAboutContactDonate
Page Preview
Page 1549
Loading...
Download File
Download File
Page Text
________________ १५३६ जीवाभिगमसूत्रे सव्वत्थोवा पंचिदिया चउरिदिया विसेसाहिया तेइंदिया विसेसाहिया बेइंदिया विसेसाहिया तेउकाइया असंखेज्जगुणा पुढवीकाइया विसेसाहिया आउकाइया विसेसाहिया वाउकाइया विसेसाहिया अणिदिया अणंतगुणा वणस्सइकाइया अणंतगुणा। ति ॥ सू० १५४ ॥ छाया-तत्र खलु ये ते एवमुक्तवन्तो दशविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तवन्तः तघथा-पृथिवीकायिकाः अप्कायिकाः तेजस्कायिकाः वायुकायिकाः वनस्पतिकायिकाः द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रियाः पञ्चेन्द्रियाः अनिन्द्रियाः । पृथिवीकायिकः खलु भदन्त ! पृथिवीकायिक इति कालतः कियच्चिरं भवति ? गौतम ! जघन्येनाऽन्तर्मुहूर्तन्मुत्कर्षेणाऽसंख्येयं कालम्-असंख्येया उत्सर्पिण्यवसर्पिण्यःकालतः, क्षेत्रतोऽसंख्येया लोकाः। एवमप्तेजोवायुकायिकः। वनस्पतिकायिका खलु भदन्त !० गौतम ! जघन्येनान्तर्मुहूर्तम्-उत्कर्षेण वनस्पतिकालः । द्वीन्द्रियः खलु भदन्त !० जघन्येनान्तर्मुहूर्तम्-उत्कर्षेण संख्येयकालम् । एवं-त्रीन्द्रियोऽपि, चतुरिन्द्रियोऽपि, पञ्चेन्द्रियः खलु भदन्त !०, गौतम ! जघन्येनान्तर्मुहूर्तम्-उत्कपेण सागरोपमसहस्रं सातिरेकम् । अनिन्द्रियः खलु भदन्त !० अनिन्द्रिय इति कालतः कियच्चिरं भवति ? गौतम ! सादिकोऽपर्यवसितः । पृथिवीकायिकस्य खलु भदन्त ! अन्तरं कालतः कियच्चिरं भवति ? गौतम ! जघन्येनान्तमुहूर्तन्मुकर्षेण वनस्पतिकालः। एवमप्कायिकस्य-तेजस्कायिकस्य--वायुकायिकस्य वनस्पतिकायिकस्य खलु भदन्त ! अन्तर कालतः कियच्चिरं भवति ? गौतम ! यैव पृथिवीकायिकस्य संचिटणा, द्वि त्रि चतुरिन्द्रिय पञ्चेन्द्रियाणामेतेषां चतुर्णामपि अन्तरं जघन्येनाऽन्तर्मुहूर्तम्-उत्कर्षेण वनस्पतिकालः । अनिन्द्रियस्य खलु भदन्त ! अन्तरं कालतः कियचिरं भवति ? गौतम ! सादिकस्याऽपर्यवसितस्य नास्त्यन्तरम् । एतेषां खलु भदन्त ! पृथिवीकायिकानामप्कायिकानां तेजस्कायिकानां वायुकायिकानां वनस्पतिकायिकानां द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरिन्द्रियाणां पञ्चेन्द्रियाणामनिन्द्रियाणां च कतरे कतरेभ्योऽल्पा वा-बहुका वा-तुल्या वा-विशेषाधिका वा ? गौतम ! सर्वस्तोकाः पञ्चेन्द्रियाः चतुरिन्द्रिया विशेषाधिकाः त्रीन्द्रिया विशेषाधिकाः द्वीन्द्रिया विशेषाधिकाः तेजस्कायिका असंख्येयगुणाः पृथिवीकायिका विशेषाधिकाः अप्कायिका विशेषाधिकाः वायुकायिका विशेषाधिका अनिन्द्रिया अनन्तगुणाः वनस्पतिकायिका अनन्तगुणाः इति ॥सू० १५४॥ જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy