________________
१५२०
जीवाभिगमसूत्रे असंखेजगुणा पढमसमयनेरइया असंखेजगुणा पढमसमयदेवा असंखेजगुणा पढमसमयतिरिक्खजोणिया असंखेजगुणा अपढमसमयनेरइया असंखेजगुणा अपढमसमयदेवा असंखेजगुणा सिद्धा अणंतगुणा अपढमसमयतिरिक्खजोणिया अणंतगुणा । से तं नवविहा सव्वजीवा पन्नत्ता ॥ सू०१५३ ॥
छाया-अथवा नवविधाः सर्वजीवाः प्रज्ञप्ताः, तद्यथा-प्रथमसमयनैरयिका, अप्रथमसमयनैरयिकाः, प्रथमसमयतिर्यग्योनिकाः अप्रथमसमयतिर्यग्योनिकाः, प्रथमसमयमनुष्याः अप्रथमसमयमनुष्याः प्रथमसमयदेवाः अप्रथमसमयदेवाः सिद्धाश्च । प्रथमसमयनैरयिकः खलु भदन्त ! प्रथमसमयनैरयिक इति कालतः कियचिरं भवति ? गौतम ! एकं समयम्, अप्रथमसमयनैरयिकः खलु भदन्त ! अप्रथमसमय नैरयिक इति कालतः कियच्चिरं भवति ? गौतम ! जघन्येन दशवर्षसहस्राणि समयोनानि उत्कर्षण त्रयस्त्रिंशत्सागरोपमाणि समयोनानि। प्रथमसमयतिर्यग्योनिकः खलु भदन्त ! प्रथमसमयतिर्यग्योनिक इति कालतः कियच्चिरं भवति ? गौतम ! एकं समयम्, अप्रथमसमयतिर्यग्योनिकः खलु भदन्त ! अप्रथमसमयतिर्यग्योनिक इति कालतः कियच्चिरं भवति ? गौतम ! जघन्येन क्षुल्लकं भवग्रहणं समयोनम्, उत्कर्षेण वनस्पतिकालः। प्रथमसमयमनुष्यः खलु भदन्त ! प्रथमसमयमनुष्य इति कालतः कियच्चिरं भवति ? गौतम ! एकं समयम, अप्रथमसमयमनुष्यः खलु भदन्त ! अप्रथमसमयमनुष्य इति कालतः कियच्चिर भवति ? गौतम ! जघन्येन क्षुल्लकं भवग्रहणं समयोनमुत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाऽभ्यधिकानि । देवो यथा नैरयिकः । सिद्धः खलु भदन्त ! सिद्ध इति कालतः कियच्चिरं भवति ? गौतम ! सादिकोऽपर्यवसितः। प्रथमसमयनैरयिकस्य खल भदन्त ! अन्तरं कालतः कियच्चिरं भवति ? गौतम ! जघन्येन दशवर्षसहस्राणि-अन्तर्मुहूर्ताऽभ्यधिकानि-उत्कर्षेण वनस्पतिकालः । अप्रथमसमयनैरयिकस्य खल भदन्त ! अन्तरं कालतः कियच्चिरं भवति ? गौतम ! जघन्येनान्तर्मुहूर्तम्-उत्कर्षेण वनस्पतिकालः । प्रथमसमयतिर्यग्योनिकस्य खलु भदन्त ! अन्तरं कालतः कियच्चिरं भवति ? गौतम ! जघन्येन दे क्षुल्लके भवग्रहणे समयोने-उत्कर्षेण वनस्पतिकालः । अप्रथमसमयतिर्यग्योनिकस्य खलु भदन्त ! अन्तरं कालतः कियच्चिरं भवति ? गौतम ! जघन्येन क्षुल्लक भवग्रहणं समयाधिकम्-उत्कर्षेण सागरोपमशतपृथक्त्वं सातिरेकम् प्रथमसमयमनुष्यस्य यथा प्रथमसमयतियग्योनिकस्य, अप्रथमसमयमनुष्यस्य खल्लु
જીવાભિગમસૂત્ર