________________
१४९२
जीवाभिगमसूत्रे पर्यवसितः-अनादिकोवा सपर्यवसितः सादिकोवा सपर्यवसितः । तत्र खलु योऽसौ सादि सपर्यवसितः स जघन्येनान्तर्मुहूर्तमुत्कर्षेणानन्तं कालं यावदपाध पुद्गलपरावर्त देशोनम्, श्रुताज्ञानी एवमेव, विभङ्गज्ञानी खलु भदन्त ! विभगज्ञानोति० जघन्येनैकं समयमुत्कर्षेण त्रयस्त्रिंशत् सागरोपमाणि देशोनया पूर्वकोटयाऽभ्यधिकानि । आभिनिबोधिकज्ञानिनः खलु भदन्त ! अन्तरं कालतः ?, जघन्येनान्तर्मुहूर्तम् उत्कर्षेणानन्तं कालं यावदपाधं पुद्गलपरावर्त देशोनम्, एवं श्रुताज्ञानिनोऽपि-अवधिज्ञानिनोऽपि-मनः पर्यवज्ञानिनोऽपि केवलज्ञानिनः खलु भदन्त ! अन्तरं० १, सादिकस्यापर्यवसितस्य नास्त्यन्तरम्, मत्यज्ञानिनः खलु भदन्त ! अंतरं० ? अनादिकस्याऽपर्यवसितस्य नास्त्यन्तरम् अनादिसपर्यवसितस्य नास्त्यन्तरम्, सादिकस्य सपर्यवसितस्य जघन्येनान्तमुहूर्तम् , उत्कर्षेण षट् षष्टिः सागरोपमाणि सातिरेकाणि एवं श्रुतज्ञानिनोऽपि विभङ्गज्ञानिनः खलु भदन्त ! अन्तरं० ? जघन्येनान्तर्मुहूर्तमुत्कर्षेण वनस्पति. कालः । एतेषां खलु भदन्त ! आभिनिवोधिकज्ञानिनां-श्रुताज्ञानिनामवधिज्ञानिनां-मनःपर्यवज्ञानिनां-केवलज्ञानिनां-मत्यज्ञानिनां- श्रुतज्ञानिनां विभङ्गज्ञानिनां च कतरेकतरेभ्यः ? गौतम ! सर्वस्तोका जीवा मनःपर्यवज्ञानिनः अवधिज्ञानिनोऽसंख्येयगुणाः आभिनिबोधिकज्ञानिनः-श्रुतज्ञानिनः एते द्वयेऽपि तुल्या विशेषाधिकाः, विभङ्गज्ञानिनोऽसंख्येयगुणाः, केबलज्ञानिनोऽनन्तगुणाः, मत्यज्ञानिनः-श्रुताज्ञानिनश्च द्वयोऽपि तुल्या अनन्तगुणाः। अथवाऽष्टविधाः सर्वजीवाः प्रज्ञप्ताः, तद्यथा-नैरयिकाः, तिर्यग्योनिकाः, तिर्यग्योनित्यः, मनुष्याः-मानुष्यः देव्यः सिद्धाः । नैरयिकः खलु भदन्त ! नैरयिक इति कालतः कियच्चिरं भवति ? गौतम ! जयन्येन दशवर्षसहस्राणि-उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि तिर्यग्योयिकः खलु भदन्त ? जघन्येनान्तर्मुहूर्तमुत्कर्षेण त्रीणि पल्योपमाणि पूर्वकोटि पृथक्वाऽभ्यधिकानि एवं मनुष्यो-मानुषी, देवो- यथा नैरयिकः । देवी खलु भदन्त ० ! जद्यन्येन दशवर्षसवस्राणि-उत्कर्षेण पञ्चपञ्चाशत्पल्योपमानि, सिद्धः खलु भदन्त ! सिद्ध इति ? गौतम ! साद्यपर्यवसितः । नैरयिकस्य खलु भदन्त ! अन्तरं कालतः कियचिरं भवति ? जघन्येनान्तर्मुहूर्तम् उत्कर्षण वनस्पतिकालः । तिर्यग्योनिकस्य खलु भदन्त ! अन्तरं कालतः० १ जघन्येनान्तर्मुहूर्तमुत्कर्षेण सागरोपमशतपृथक्त्वं सातिरेकम् तिर्यग्योनिकी खलु भदन्त ! अन्तरं कालतः कियच्चिरं भवति ? गौतम ! जघन्येनान्तर्मुहूर्तमुत्कर्षेण वनस्पतिकालः, एवं मनुष्यस्यापि-मानुष्योऽपि, देवस्याऽपि-देव्योऽपि. सिद्धस्य खलु भदन्त ! अंतरं सादिकस्याऽपर्यवसितस्य नास्त्यन्तरम् । एतेषां खलु भदन्त !
જીવાભિગમસૂત્ર