SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू. ५९ विजया रा. स्थलं विस्तारादिकं च १३१ मध्ये संक्षिप्त उपरि तनुको बहिवृत्तोऽन्तश्चतुरस्रो गोपुच्छसंस्थानसंस्थितः सर्वकनकमयोऽच्छो यावत् प्रतिरूपः ॥ स खलु प्राकारः नानाविध पञ्चवर्णैः कपिशीर्षकैरुपशोभितः तद्यथा-कृष्णैर्यावच्छुक्लैः। ते खलु कपिशीर्षका अर्धक्रोशमायामेन पञ्चधनुःशतानि विष्कम्भेण देशोनमर्धक्रोश मूर्ध्वमुच्चत्वेन सर्वमणिमया अच्छा यावत्प्रतिरूपाः । विजयायाः खलु राजधान्या एकैकस्यां बाहायां पञ्चविंशतिः पञ्चविंशतिरशतं भवन्तीत्याख्यातम्, तानि खलु द्वाराणि द्वाषष्टियोजनानि अर्द्धयोजनं चोर्ध्वमुच्चत्वेन एकत्रिंशद् योजनानि क्रोशं च विष्कम्भेण तावदेव च प्रवेशेन श्वेता वरकनकस्तूपिका इहामृग तथैव यथा विजयद्वारे यावत् तपनीयवालुका प्रस्तटाः शुभस्पर्शाः सश्रीकाः सुरूपाः प्रासादीयाः४॥ तेषां खलु द्वाराणाम् उभयोः पाचयोः द्विधातो नैषेधिक्यां द्वे द्वे चन्दकलशपरिपाटयौ प्रज्ञप्ते, तथैव भणितव्यं यावद्वनमालाः॥ तेषां खलु द्वाराणामुभयतः पार्श्वयोः द्विधातो नैधिक्यां द्वौ द्वौ प्रकण्ठको प्रज्ञप्तौ ते खलु प्रकण्ठकाः एकत्रिंशद् योजनानि क्रोशश्चायामविष्कम्भेण पञ्चदशयोजनानि सार्द्धद्विकोश बाहल्येन प्रज्ञप्ता सर्व वज्रमया अच्छा यावत्प्रतिरूपा ।। तेषां खलु प्रकण्ठकानामुपरि प्रत्येकं प्रत्येकं प्रासादावतंसकाः प्रज्ञप्ताः ते खलु प्रासादावतंसकाः एकत्रि. शद योजनानि क्रोशं चोर्ध्वमुच्चत्वेन पञ्चदशयोजनानि सार्द्ध द्विक्रोशं चायामविष्कम्भेण शेषं तदेव यावत् समुद्काः , नवरं बहुवचनं भणितव्यम् । विजयायाः खलु राजधान्याः एकैकस्मिन् द्वारे अष्टशतं चक्रध्वजानाम् यावदष्टशतं श्वेतानां चतुर्विषाणानां नागवरकेतुनाम् एवमेव सपूर्वापरेण विजयाया राजधान्या एकैकस्मिन् द्वारे अशीतमशीतं केतुसहसहस्रं भवतीत्याख्यातम् । विजयायाः खलुराजधान्या एकैकस्मिन् द्वारे तेषां द्वाराणां पुरतः सप्तदश भौमानि प्रज्ञप्तानि, तेषां खलु भौमानाम् 'भूमिभागाः' उल्लोकाश्च पद्मलता भक्तिचित्राः तेषां खलु भौमानां बहुमध्य देशमागे यानि तानि नवमनवमानि भौमानि, तेषां खलु भौमानं बहुमध्य देशमागे प्रत्येकं प्रत्येकं सिंहासनानि प्रज्ञप्तानि, सिंहासनवर्णनं यावद् दामानि यथा अवस्तात्, अत्र खलु अवशेषेषु भौमेषु प्रत्येकं प्रत्येकं भद्रासनानि प्रज्ञप्तानि तेषां खलु द्वाराणामुपरितनाकाराः षोडशविधैः रत्नैरुपशोभिताः तदेव यावत् छत्रातिच्छत्राणि एवमेव पूर्वापरेण विजयाया राजघान्याः पञ्चद्वारशतानि भवन्तीत्याख्यातम् ॥सू०५९॥ टीका-'कहि णं भंते' कुत्र-कस्मिन्नेवस्थाने खलु भदन्त ! 'विजयस्स देवस्स' 'कहिणं भंते ! विजयस्स देवस्स विजया णाम रायहाणी पन्नत्ता' इ०। 'कहि णं भंते ! विजयस्स देवस्स विजया णाम रायहाणी पण्णत्ता' त्यादि જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy