________________
प्रमेयद्योतिका टीका प्र.१० सू.१४७ जीवानां चातुर्विध्यनिरूपणम् १४२५ अंतरं । अप्पा बहुयं सव्वत्थोवा संजया संजयासंजया असंखेजगुणा नो संजया नो असंजय नो संजयासंजया अणंतगुणा असंजया अणंतगुणा ।सेत्तं चउव्विहा सव्वजीवा पन्नत्ता ॥१४७॥ ___छाया-अथवा-चतुर्विधाः सर्वजीवाः प्रज्ञप्ताः तद्यथा-स्त्री वेदकाः पुरुषवेदकाः नपुंसकवेदकाः अवेदकाः ।स्त्रीवेदकाः खलु भदन्त ! स्त्रीवेदक इति कालतः किच्चिरं भवति ? गौतम ! (एकेनादेशेन०) पल्योपमशतं दशोत्तरमष्टादशचतुर्दशपल्योपमपृथक्त्वं, समयो जघन्यः पुरुषवेदकस्य जघन्येनान्तर्मुहूर्तम्-उत्कपेण सागरोपमशतपृथक्त्वं सातिरेकम्, नपुंसक वेदकस्य जघन्येनैकं समयम्उत्कर्षणानन्तं कालं वनस्पतिकालः । अवेदको द्विविधः प्रज्ञप्तः सादिकोवाऽपर्यवसितः १ सादिकोवा सपर्यवसितः २ स जघन्येनैकं समयमुत्कर्षेणान्तर्मुहूर्तम् । स्त्रीवेदकस्यान्तरं जघन्येनान्तर्मुहूर्तम् उत्कर्षेण वनस्पतिकालः, पुरुषवेदकस्य जघन्येनैकं समयम्-उत्कर्षेण वनस्पतिकालः, नपुंसकवेदकस्य-जघन्येनान्तर्मुहूतम्-उत्कर्षेण सागरोपमशतपृथक्त्वं सातिरेकम् । अवेदको यथाऽधस्तात् । अल्पबहुत्वम० सर्वस्तोकाः पुरुषवेदकाः, स्त्रीवेदकाः संख्येयगुणाः, अवेदका अनन्तगुणाः, नपुंसकवेदका अनन्तगुणाः । अथवा-चतुर्विधाः सर्वजीवाः प्रज्ञप्ताः तद्यथा-चक्षुर्दर्शनीऽचक्षुर्दर्शनीऽवधिदर्शनी केवलदर्शनी। चक्षुर्दर्शनी खलु भदन्त ! जघन्येनान्तर्मुहूर्त मुत्कर्षेण सागरोपमसहस्रं सातिरेकम् अवक्षुर्दर्शनी द्विविधः प्रज्ञप्तः अनादिको वाऽपर्यवसितः १ अनादिको वा सपर्यवसितः २ अवधिदर्शनिनो जघन्येनैकं समयमुत्कर्षेण द्वे षट् षष्ठी सागरोपमाणां सातिरेक केवलदर्शनी सादिकोऽपर्यवसितः । चक्षुदर्शनिनोऽन्तरं जघन्येनान्तर्मुहूर्तम्-उत्कर्षेण वनस्पतिकालः। अचक्षुदर्शनिनो द्विविधस्य नास्त्यन्तरम् अवधिदर्शनिनो जघन्येनान्तर्मुहूर्तम्-उत्कर्षेण वनस्पतिकालः । केवलदर्शनिनो नास्त्यन्तरम् । अल्पबहुत्वम् सर्वस्तोका अवधिदर्शनिनः, चक्षुदर्शननोऽसंख्येयगुणाः, केवलदर्शनिनोऽनन्तगुणाः, अचक्षुर्दर्शनिनोऽनन्तगुणाः । अथवा चतुर्विधाः सर्वजीवाः प्रज्ञप्ताः, तद्यथा-संयताः १ असंयताः २ संयताऽसंयता: ३ नो संयता नो असंयताः नो संयताऽसंयताः ४ । संयतः खलु भदन्त !, जघन्येनैकं समयम्-उत्कर्षणदेशोना पूर्वकोटिः, असंयतो यथाऽज्ञानी, संयतासंयतो जघन्येनान्तर्मुहूर्तम्उत्कर्षेण देशोना पूर्वकोटिः, नो संयत नो असंयत नो संयतासंयतः सादिकोऽपर्यवसितः। संयतस्य संयताऽसंयतस्य द्वयोरप्यन्तरं जघन्येनान्तर्मुहूर्तम्-उत्कर्षेणापाधं पुद्गलपरावर्तं देशोनम्, असंयतस्याययोर्द्वयोर्नास्त्यन्तरम् सादिकस्य सपर्यवसितस्य जघन्येनैकं समयमुत्कर्षेण देशोना पूर्वकोटिः, चतुर्थकस्य नास्त्यन्त
जी० १७९
જીવાભિગમસૂત્ર