________________
१३१२
जीवाभिगमसूत्रे
भवग्रहणं समयोनम् - उत्कर्षेण या यस्य स्थितिः सा समयोना यावत्पञ्चेन्द्रियाणां त्रयस्त्रिंशत्सागरोपमाणि समयोनानि । 'संचिणा' संस्थितिः प्रथमसमयिकस्य जघन्येनैकं समयम् - उत्कर्षेणैकं समयम् अप्रथमसमयिकानां जघन्येन क्षुल्लकंभवग्रहणं समयोनम् - उत्कर्षेणैकेन्द्रियाणां वनस्पतिकालः । द्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रियाणां संख्येयं कालम् - पञ्चेन्द्रियाणां सागरोपमसहस्रं सातिरेकम् । प्रथमसमयै केन्द्रियाणां कियन्तं कालमन्तरं भवति ? गौतम ! जघन्येन द्वे क्षुल्लकभवग्रहणे समयोने, उत्कर्षेण वनस्पतिकालः, अप्रथमस मयै केन्द्रियाणामन्तरं जघन्येन क्षुल्लकं भवग्रहणं समयाधिकम् - उत्कर्षेण द्वे सागरोपमसहस्रे संख्येयवर्षाभ्यधिके शेषाणां सर्वेषां प्रथमसमयिकाणामन्तरं जघन्येन द्वे क्षुल्लके भवग्रहणे समयोने उत्कर्षेण वनस्पतिकालः । अप्रथमसमयिकाणां शेषाणां जघन्येन क्षुल्लकं भवग्रहणं समयाधिकम् - उत्कर्षेण वनस्पतिकालः । प्रथमसमयिकानां सर्वेषां सर्वस्तोकाः प्रथमसमय पञ्चेन्द्रियाः प्रथमसमयचतुरिन्द्रिया विशेषाधिकाः प्रथमप्तमयत्रीन्द्रिया विशेषाधिकाः । प्रथमसमयद्वीन्द्रिया विशेषाधिकाः प्रथमसमयैकेन्द्रिया विशेषाधिकाः एवम प्रथमसमयिका अपि, नवरम् - अप्रथमसमयैकेन्द्रिया अनंतगुणाः । द्वयोरल्पबहुत्वम् सर्वस्तोकाः प्रथमसमयै केन्द्रिया अप्रथम समयै केन्द्रिया अनन्तगुणाः, शेषाणां सर्वस्तोकाः प्रथमसमयिकाः अप्रथमसमयिका असंख्येयगुणाः । एतेषां खलु भदन्त ! प्रथमसमयैकेन्द्रियाणाम् अप्रथमसमयै केन्द्रियाणां यावद् अप्रथमसमयपञ्चेन्द्रियाणां च कतरेकतरेभ्योऽल्पा वा यावद् विशेषाधिका वा ? गौतम ! सर्वस्तोकाः प्रथमसमयपञ्चेन्द्रियाः प्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, प्रथमसमयत्रीन्द्रिया विशेषाधिकाः एवमधोमुखा यावत्प्रथमसमयैकेन्द्रिया विशेषाधिकाः, अप्रथमसमयपञ्चेन्द्रिया असंख्येयगुणाः, अप्रथमसमयचतुरिन्द्रिया विशेषाधिकाः यावदप्रथमसमयै केन्द्रिया अनन्तगुणाः । त एते दशविधाः संसारसमापन्नका जीवाः प्रज्ञप्ताः । सोयं संसारसमापन्नकजीवाभिगम इति ।। सू० १३९ ।। नवमीप्रत्तिपत्तिः समाप्ता
टीका- 'तत्थ णं जे ते एवमाहंसु - दसविहा संसारसमावन्नगाजीवा - ते एव माहंसु - तं जहा - पढ़मसमयए गिंदिया - अपढमसमय एगिंदिया- पढमसमय बेई -
नवमी प्रतिपत्ति
'तत्थ णं जे ते एवमाहंसु - दसविहा संसारसमापन्नगा जीवा દશમી પ્રતિપત્તિના આરભ
' तत्थ णं जे ते एवमाहंसु - दसविहा संसारसमावण्णगा जीवा ते एवमा
જીવાભિગમસૂત્ર