________________
१२८६
जीवाभिगमसूत्रे जोणिया अणंतगुणा । से तं अटविहा संसारसमावण्णगा जीवा पन्नत्ता । अट्टविह पडिपत्ती समत्ता ॥सू० १३७॥
छाया-तत्र ये ते एवमुक्तवन्तः-अष्टविधाः संसारसमापन्नका जीवास्ते एवमुक्तवन्तः प्रथमसमयनैरयिकाः अप्रथमसमयनैरयिकाः, प्रथमसमयतिर्यग्योनिकाः अप्रथमसमयति यग्योनिकाः, प्रथमसमयमनुष्याः अप्रथमसमयमनुष्याः, प्रथमसमयदेवाः अप्रथमसमयदेवाः। प्रथमसमयनैरयिकस्य खलु भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! प्रथमसमयनैरयिकस्य जघन्येनैकं समयम्उत्कर्षेणैकं समयम्, अप्रथमसमयनैरयिकस्य जघन्येन दशवर्षसहस्राणि समयोनानि, उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि समयोनानि । प्रथमसमयतिर्यग्योनिकस्य जघन्येनैकं समयम् उत्कर्षेणैकं समयम् अप्रथमसमयतिर्यग्योनिकस्य जघन्येन क्षुल्लक भवग्रहणं समयोनम्-उत्कर्षेण त्रीणि पल्योपमानि समयोनानि एवं मनुष्याणामपि यथा तिर्यग्योनिकानाम् देवानां यथा नैरयिकाणां नैरयिक-देवयोर्यैव स्थितिः सैव संस्थितिः द्विविधयोरपि । प्रथमसमयतिर्यग्योनिकः खलु भदन्त ! प्रथमसमयतिर्यग्योनिक इति कालतः किच्चिरं भवति ? गौतम ! जघन्येनैकं समयम् उत्कर्षेणैकं समयम् अप्रथमसमय तिर्यग्योनिकस्य जघन्येन क्षुल्लकं भवग्रहणं समयोनम् उत्कर्षेण वनस्पतिकालः। प्रथमसमयमनुष्याणां जघन्येनैकं समयम्उत्कर्षेणैकं समयम्, अप्रथमसमयमनुष्यस्य जघन्येन क्षुल्लकं भवग्रहणं समयोनम्उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि । अन्तरं प्रथमनैरयिकस्य जघन्येन दशवर्षसहस्राणि- अन्तर्मुहूर्ताभ्यधिकानि-उत्कर्षेण वनस्पतिकालः । अप्रथमसमयनैरयिकस्य जघन्येनान्तर्मुहूर्तम्-उत्कर्षेण वनस्पतिकालः । प्रथमसमयतिर्यग्योनिकस्य जघन्येन द्वे क्षुल्लकभवग्रहणे समयोने-उत्कर्षण वनस्पतिकालः । अप्रथमसमयतिर्यग्योनिकस्य जघन्येन क्षुल्लकं भवग्रहण समयाधिकम्-उत्कर्षेण सागरोपमशतपृथक्त्वं सातिरेकम् । प्रथमसमयमनुष्यस्य जघन्येन द्वे क्षुल्लके भवग्रहणे समयोने उत्कर्षेण वनस्पतिकालः। अप्रथमसमयमनुष्यस्य जघन्येन क्षुल्लकं भवग्रहणं समयाधिकम्-उत्कर्षेण वनस्पतिकालः । देवानां यथा नैरयिकाणाम् जघन्येन दशवर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि-उत्कर्षेण वनस्पतिकालः। अप्रथमसमयदेवानां जघन्येनान्तर्मुहूर्तम्-उत्कर्षेण वनस्पतिकालः । अल्पबहुत्वम्-एतेषां खल भदन्त ! प्रथमसमयनैरयिकाणां यावत्प्रथमसमयदेवानां च कतरे कतरेभ्योऽल्पा वा यावद्विशेषाधिका वा ? गौतम ! सर्वस्तोकाः प्रथमसमयमनुष्याः प्रथमसमयनैरयिका असंख्येयगुणाः, प्रथमसमयदेवा असंख्येयगुणाः, प्रथमसमयतिर्यग्योनिका असंख्येय गुणाः । अप्रथमसमयनैरयिकाणां
જીવાભિગમસૂત્રા