________________
जीवाभिगमसूत्रे छाया-एकोरुक मनुजीनां भदन्त ! कीदृश आकारभावपत्यवतारः प्रज्ञप्तः ? गौतम ! ताः खलु मनुज्यः सुजातसर्वाङ्गमुन्दर्यः प्रधान-महिलागुणैर्युक्ता अत्यन्त विसर्पत्पद्म सुकुमार कूर्मसंस्थित विशिष्टचरणाः ऋजुमृदुक पीबर निरन्तर पुष्टसंहताङ्गुलयः उन्नतरतिदतलिनताम्रशुचिस्निग्धनखाः रोमरहित वृत्तलष्टसंस्थिता जघन्य प्रशस्तलक्षणाकोप्यजंघयुगलाः सुनिर्मित सुगूढजानुमंडल सुबद्धसन्धयः कदलीस्तम्भातिरेक संस्थित निर्वण सुकुमार मृदुककोमलाविरळसमसंहितसुजातवृत्तपीवर निरन्तरोरवः, अष्टापदवीचि पट्टसंस्थित प्रशस्त विस्तीर्ण पृथुल श्रोणयः वदनायाम प्रमाण द्विगुणित विशालमांसल सुबद्ध जघनवरधारिण्यः वज्र. विराजित प्रशस्तलक्षणनिरुदराः त्रिवलीवलितत्तनुनमितमध्यिकाः ऋजुकसमसंहितजात्यतनुक कृष्णस्निग्धादेयलडहललित सुविभक्त सुजातकान्तशोभमान रुचिररमणीयरोमराजथः गंगावत प्रदक्षिणावर्ततरङ्ग भङ्गुररविकिरणतरुणबोधिता कोशायमान पद्मवनगम्भीर विकटनाभया अनुद्भट प्रशस्तपीनकुक्षयः संनतपार्थाः सङ्गतपार्थाः सुजातपाः मित्रमात्रिकपोनरतिदपाश्र्वाः अकरण्डकनकरुचकनिमलसुजात निरुपहतगात्रयष्टयः काश्चनकलश समप्रमाण समसंहितसुजातलष्टचुचूकामेलकयमलयुगल वर्तिताभ्युनतरविद संस्थितपयोधराः भुजङ्गानुपूज्यंतनुके गापुच्छवृत्तसमसंहित नतादेयललितबाह्यः ताम्रनखाः मांसलाग्रहस्ताः पीवरकोमलवराङ्गुलयः स्निग्धपाणिरेखाः रविशशिशङ्खचक्र स्वस्तिक सुविभक्त शुचिरतिदपाणिरेखाः पीनोन्नतकक्षबस्तिदेशाः परिपूर्णगल्लकपोलाः चतुरङ्गुलसुप्रमाण कम्बुवरसदृशग्रीवाः मांसलसंस्थित प्रशस्तहनुकाः दाडिमपुष्पप्रकाशपीवर कुश्चित. वराघराः सुन्दरोत्तरौष्ठाः दधिदकरजश्चन्द्रकुन्दवासन्तीमृदुलाछिद्रविमलदशनाः रक्तोत्पलपत्रमृदुकसुकुमारतालुजिह्वाः कणकवरमृदुलकुटिलाभ्युद्गतऋजुतुङ्गनासा: शारदनवकमलकुमुदकुवलय विमुक्तदल निकर सदृशलक्षणाङ्कितकान्तनयनाः पत्रल चपलायमानताम्रलोचना आनामितचापरुचिरकृष्णाभ्रराजिसंस्थितसङ्गतायत सुजा. तकृष्णस्निग्धभुवः आलीनप्रमाणयुक्तश्रवणाः पीनमृष्टरमणीयगण्डरेखाः चतुरस्र प्रशस्तसमललाटाः कौमुदीरजनिकरविमलपरिपूर्णसौम्यवदना छत्रोन्नत्तोत्तमानाः कुटिलमुश्लिष्टदीर्घशिरोजाः छत्रध्वजयुगरतूपदामिनिकमण्डलुकलशवापीस्वस्तिकपताकायवमत्स्य कूर्मरथबरमकर शुकस्थालाङ्कशाष्टापदबीज सुप्रतिष्ठकमयूरश्रीदामाभिषेकतोरणमेदिन्युदधिवरभवनगिरिवरादर्शललितगजऋषभसिंह चामरोत्तमप्रशस्त द्वात्रिंशल्लक्षणधराः हंससदृशगतयः कोकिलमधुरगीः सुस्वराः कान्ताः सर्वस्यानुनताः व्यपगतवलिपलिता: व्यङ्गदुर्वणव्याधि दौर्भाग्यशोकमुक्ताः उच्चत्वेन च नराणां स्तोकेनोच्छ्रिताः स्वभावशृङ्गारागारचारवेषाः, संगतगतहसित-भणितचेष्टित विलाससंलापनिपुणयुक्तोपचारकुशलाः सुन्दरस्तन जघन
જીવાભિગમસૂત્ર