SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ५०६ जीवाभिगमसूत्रे विशुद्ध वृक्षमूला स्तिष्ठन्ति । एकोलकद्वीपे खलु तत्र २ बहव स्तिलकलवका न्यग्रोधा यावद्राजवृक्षा नन्दिवृक्षाः कुशविकुश विशुद्ध वृक्षमूलास्तिष्ठन्ति । एको. रूकद्वीपे खलु तत्र बहच्यः पद्मलता यावत् श्यामलता नित्यं कुसुमिताः, एवं लता वर्णको यथा यथा औपपाति के यावत् प्रतिरूपाः । एकोरूकद्वीपे खलु तत्र २ बहवः सेरिकागुल्माः यावन्महाजातिगुल्माः, ते खलु गुल्मादशार्द्धवर्ण कुसुम कुसुमयन्ति विधूताग्रशाखाः येन वाताविधूताग्रशालाः एकोरूकद्वीपस्य बहुसमरमणीयभूमिभागं मुक्तपुष्पपुञ्जोपचारकलितं करोति । एकोरूकद्वीपे खलु तत्र २ बहल्यो वनराजयः प्रज्ञप्ताः, ताः खलु वनराजयः कृष्णाः कृष्णावभासा: यावद् रम्याः महामेघनिकुरम्बभूताः यावन्महतीं गन्धघ्राणी मुश्चन्त्य प्रासादीयाः ४ ।एकोरूकद्वीपे तत्र तत्र बहवो मत्ताङ्गा नाम द्रुमगणाः प्रज्ञप्ताः श्रमणायुहमन् ! यथा ते चन्द्रप्रभमणिशिलाकवरसीधु प्रवरवारुणी सुजातपत्रपुष्पफल. चोयनियसिसार बहुद्रव्ययुक्तिसंभारकालसन्धितासवा मधुमेरकरिष्टाभदुग्धजाति प्रसन्न मेल्लकशतायुः खर्जूरमृद्वीकासार कपिशायन सुपक्वक्षोदरसवर सुरावर्ण रसगन्धस्पर्शयुक्त बलवीर्यपरिणामाः, मद्यविधिना उपेता बहु प्रकारास्तदेवं ते मत्तङ्गजा अपि द्रुमगणाः अनेक बहुविविधविस्रसापरिणतेन मद्यविधिनोपपेताः फलैः पूर्णाः विलसन्ति कुशविकुश विशुद्ध वृक्षमूला यावत्तिष्ठन्ति १ । एकोलके द्वीपे तत्र २ बहवो भृङ्गाङ्गका नाम द्रुमगणाः प्रज्ञप्ताः श्रवणायुष्मन् ! यथा ते वारक घटककरककलश कर्करीपाद कश्चनिका उदङ्कवर्द्धनीसप्रतिष्ठकपारी चषक भृङ्गार करोटिका सरक परकपात्री स्थाल मल्लक चपलित दकवारक विचित्र वर्तक शुक्तिचारूपीनकाः काञ्चनमणिरत्नभक्तिचित्रा भाजनविधिना बहुप्रकारा स्तथैव ते भृङ्गाङ्गका अपि द्रुमगणाः अनेक बहुविविधविस्रसापरिणतेन भाजनविधिनोपपेताः फलैः पूर्णा विलसन्ति, कुशविकुश विशुद्धवृक्षम्ला यावत्तिष्ठन्तिर एकोरूकद्वीपे खलु द्वीपे तत्र २ बहवस्त्रुटिताङ्गा नाम द्रुमगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! यथा ते आलिंग मृदङ्गपणव पटहदर्दरककरडडिंडिमभंभाहोरम्भकर्णिकार खरमुखी मुकुन्द शंखिक परिलीका घरकपरिवादिनी वंशवेणुवीणासुघोषविपश्ची महती कच्छपी रगसगातलतालकांस्यतालसुसंप्रयुक्ता आतोधविधि निपुणगन्धर्वसमयकुशलैः स्पन्दिताः त्रिस्थानशुद्धास्तथैव ते त्रुटिताङ्गका अपि द्रुमगणा अनेक बहुविधविस्रसापरिणतेन तत वितत घणसुषिरेण चतुर्विधेन आतोद्यविधिनोपेताः फलैः पूर्णाः विदलन्ति कुशविकुश विशुद्ध वृक्षम्लाः यावत्तिष्ठन्ति ३ । एकोरूक द्वीपे तत्र तत्र बहवो दीपशीखा नाम द्रुमगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! यथा ते सन्ध्या विरागसमये नवनिधिपते र्दीपिका चक्रवालवृन्दे प्रभूतवर्ति-प्रदीपैः જીવાભિગમસૂત્ર
SR No.006344
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages918
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy