________________
२५४
जीवाभिगमसूत्रे छाया-एतस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्यां नैरयिकाणां कीदृशा : पुद्गला उच्छ्वासतया परिणमन्ति ? गौतम ! ये पुद्गला अनिष्टा यावदमनोऽमारते तेषामुच्छ्वासतया परिणमन्ति एवं यावदधः सप्तम्याम् । एवमाहारस्यापि सप्त. स्वपि एतस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्यां नैरयिकाणां कतिलेश्याः प्रज्ञप्ताः गौतम ! एका कापोतलेश्या प्रज्ञप्ता। एवं शर्कराप्रभायामपि, बालुकाप्रभायां पृच्छा गौतम ! द्वे लेश्ये प्रज्ञप्ते तद्यथा-नीललेश्या कापोतलेश्या च । तत्र ये कापोतलेश्यास्ते बहुतराः येनीललेश्यास्ते स्तोकाः पङ्कप्रभायां पृच्छा गौतम ! एका नीललेश्या प्रज्ञप्ता। धूमप्रभायां पृच्छा गौतम ! द्वे लेश्ये प्रज्ञप्ते, तद्यथा-कृष्णलेश्या च नीललेश्या च, ते बहुतराः ये नीललेश्याः, ते स्तोकतराः ये कृष्ण लेश्याः। तमायां पृच्छा, गौतम ! एका कृष्णलेश्या । अधः सप्तम्यामेका परम कृष्णलेश्या । एतस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्यां नैरयिकाः किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्रमिथ्यादृष्टयः ? गौतम ! सम्यग्दृष्टयोऽपि मिथ्यादृष्टयोऽपि सम्यग्रमिथ्यादृष्टयोऽपि, एवं यावदधः सप्तम्याम् । एतस्यां खलु भदन्त ! रत्नप्रभायां प्रथिव्यां नैरयिकाः किं ज्ञानिनोऽज्ञानिनः ? गौतम | ज्ञानिनोऽपि अज्ञानिनोऽपि ये ज्ञानिनस्ते नियमत स्त्रिज्ञानिनः तद्यथा-आभिनिबोधिक ज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिना, ये अज्ञानिनस्ते सन्त्येकके द्वयज्ञानिनः सन्त्येकके यज्ञानिनः ये द्वयज्ञानिनस्ते नियमाव मत्यज्ञानिनश्च श्रुताज्ञानिनश्च, ये व्यज्ञानिनस्ते नियमात् मत्यज्ञानिनो श्रुताज्ञानिनो विभङ्गज्ञानिनोऽपि, शेषाः खलु ज्ञानिनोऽपि अज्ञानिनोऽपि, त्रयो यावदधः सप्तम्याम् ॥ एतस्यां खलु रत्नप्रभायां पृथिव्यां नैरयिकाः किं मनोयोगिनो वचोयोगिनः काययोगिनः ? गौतम ! त्रयोऽपि, एवं यावदधः सप्तम्याम् । एतस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्यां नैरयिकाः किं साकारोपयुक्ता अनाकारोपयुक्ताः ? गौतम ! साकारोपयुक्ता अपि, अनाकारोपयुक्ताअपि एवं यावदधः सप्तम्याम् । एतस्यां खलु रत्नप्रभायां पृथिव्यां नैरयिका अवधिना कियत क्षेत्रं जानन्ति पश्यन्ति ? गौतम ! जघन्येन अर्द्ध चतुर्थगव्यूतानि उत्कर्षेण चत्वारिगव्युतानि । शर्कराप्रभायां पृथिव्यां नैरयिकाः जघन्येन त्रीणि गव्यूतानि उत्कर्षेणार्द्ध चतुर्थानि एवमगिव्यूतं परिहीयते यावदधः सप्तम्यां जघन्येनाचगव्यूत मत्कर्षेण गव्यूतम् । एतस्यां खलु भदन्त ! रत्नपभायां पृथिव्यां नैरयिकाणां कति समुद्घाता: प्रज्ञप्ताः? गौतम । चत्वारःसमुद्घाताः प्रज्ञप्ताः तद्यथा-वेदना समुद्घातः कषाय समुद्घातो, मारणान्तिक समुद्घातो, वैक्रियसमुद्घातः एवं यावदधः सप्तम्याम् ॥सू०१९॥
જીવાભિગમસૂત્ર