________________
प्रमेयद्योतिका टीका प्र. ३ सू.१० प्रतिपृथिव्याः उपर्यधस्तनचरमान्तयोरन्तरम् ११३ रत्नप्रभायाः पृथिव्या उपरितनात् चरमान्तात् वज्रस्य काण्डस्याधस्तनश्वरमान्तः एतत्खलु अबाधया अन्तरं प्रज्ञप्तम् ? गौतम ! द्वे योजनसहस्रे अबाधया अन्तरं प्रज्ञप्तम् । एव यावद्विष्टस्योपरितनश्वरमान्तः पञ्चदशयोजनसहस्राणि, अधस्तनश्वरमान्तः षोडश योजनसहस्राणि । एतस्याः खलु भदन्त ! रत्नप्रभायाः पृथिव्याः उपरितनात् चरमान्तात् पङ्कबहुलस्य काण्डस्योपरितनश्वरमान्तः एतत् खलु कियद् अबाधया अन्तरं प्रज्ञप्तम् ? गौतम ! षोडशयोजनसहस्राणि अबाधया अन्तरं प्रज्ञप्तम् | अधस्तनश्वरमान्त एकं योजनशतसहस्रम् | अब्बहुलस्योपरितनश्वरमान्त एकं योजनशतसहस्रम् अधस्तनश्चरमान्तः अशीत्युत्तरं योजनशतसहस्रम् । घनोदघेरुपरितनश्चरमान्तः, अशीत्युत्तरयोजनसहस्रम् अघस्तनश्वरमान्तो द्वे योजन शतसहस्र । एतस्याः खलु भदन्त ! रत्नप्रभायाः पृथिव्या उपरितनाच्चरमान्तात् घनवातस्योपरितनश्चरमान्तो द्वे योजनशतसहस्रे, अधस्तनश्वरमान्तः असंख्येयानि योजनशतसहस्राणि । एतस्याः खलु भदन्त ! रत्नप्रभाया पृथिव्या उपरितनाच्चरमान्तात् तनुवातस्य उपरितनश्चरमान्तः असंख्येयानि योजनशतसहस्राणि । अबाधया अन्तरम्, अधस्तनोऽपि असंख्येयानि योजनसहस्राणि एवमवकाशान्तरमपि । द्वितीयायाः खलु भदन्त ! पृथिव्या उपरितनात् चरमान्तात् अधस्तनश्वरमान्तः, एतत् खलु कियदबाधया अन्तरं प्रज्ञप्तम् ? गौतम ! द्वात्रिंशदुत्तरं योजनशतसहस्रम् अबाधया अन्तरं प्रज्ञप्तम् । शर्कराप्रभायाः पृथिव्या उपरितनाच्चरमान्तात् घनोद धेरधस्तनश्वरमान्तो द्विपञ्चाशदुत्तरं योजनशतसहस्रमबाधया घनवातस्यासंख्येयानि योजनशतसहस्राणि प्रज्ञप्तानि एवं यावदवकाशान्तरस्यापि यावदधः सप्तम्याः | नवरं यस्याः यद् बाहल्यं तेन घनोदधिः संबन्धयितव्यो बुद्धया । शर्कराप्रभाया अनुसारेण घनोदधि सहितानामिदं प्रमाणम् । बालुका प्रभाया अष्टचत्वारिंशदुत्तरं योजनशतसहस्रम् ३ षङ्कप्रभायाः पृथिव्या श्रत्वारिंशदुतरं योजनशतसहस्रम् ४, धूमप्रभायाः पृथिव्या अष्टत्रिंशदुत्तरं योजनसहस्रम् ५ तमः प्रभायाः पृथिव्याः षट्त्रिंशदुत्तरं योजनशतसहस्रम् ६ अधः सप्तम्याः पृथिव्या अष्टाविंशत्युत्तरं योजनशतसहस्रम् ७ ।
यावदधः सप्तम्याः खलु भदन्त ! पृथिव्या उपरितनाच्चरमान्तात् अवकाशा न्तरस्याधस्तनश्वरमान्तः कियद् अबाधया अन्तरं प्रज्ञप्तम् ? गौतम ! असंख्येयानि योजनशतसहस्राणि अबाधया अन्तरं प्रज्ञप्तम् ||१०॥
अब सूत्रकार प्रत्येक पृथिवी के विभाग से उपरितन अधस्तन चरमान्त का अन्तर प्रतिपादन करते हैं
હવે સૂત્રકાર દરેક પૃથ્વીના વિભાગ પૂર્વક ઉપરિતન-ઉપરના અધસ્તન અને ચરમાન્તના અ'તરનુ' પ્રતિપાદન કરે છે
जी० १५
જીવાભિગમસૂત્ર